________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२२]
करणारकान्ततरिका चैव प्रियतरिका चैवेति परिग्रहा, मनापतरिका एव आस्वादेन प्रज्ञप्ता इति, अथ पुष्पफलानामास्वाद पृच्छन्नाह-'तेसि ण'मित्यादि, तेषां-पुष्पफलानां कल्पद्रुसम्बन्धिना कीदृशः-क आस्वादः प्रज्ञप्तो, यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानीति गम्यं, भगवानाह-गौतम ! तद्यथा नाम राज्ञः, स च राजा लोके कतिप-18
यदेशाधीशोऽपि स्यादत आह-चतुर्धन्तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलमस्येति चतुरन्तचक्रवत्ती, 181'अतः समृध्यादौ ' (श्रीसि०८-१-४४) त्यनेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्तिः कृता, तस्य कल्याण-एकान्तसु81 खावह भोजनजातं-भोजनविशेषः शतसहस्रनिष्पन्न-लक्षव्ययनिष्पन. वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यभो-18 HS जनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं १, उपपेतं-युक्तं, यावदतिशायिना स्पर्शनोपपेतं यावत्
गन्धेन रसेन चातिशायिनोपपेतं, आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं-अभिवृद्धिकरं । दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्तर्यनीयप्रत्ययाः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं-मन्मथजनकत्वात् बृंहणीयं धातूपचयकारित्वात् सर्वाणि इन्द्रियाणि गात्रं च प्रहादयतीति सर्वेन्द्रियगात्रप्रहादनीयं वैशद्यहेतु-18 त्वात्तेषां, एवमुक्को गौतम आह-भगवन् ! भवेदेतद्रूपतेषां पुष्पफलानामास्वादः, भगवानाह-गौतम ! नायमर्थः समर्थः, तेषां पुष्पफलानामित:-चक्रवर्तिभोजनादिष्टतरकादिरेवाखादः, अत्र कल्याणभोजने सम्प्रदाय एवं-चक्रवर्तिसम्बन्धिनीनां पुंड्रेक्षुचारिणीनामनातकानां गवां लक्षस्थाद्धार्द्धक्रमण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः सम्बन्धि
श्रीप
अनुक्रम [३५]
~249~