SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२०] दीप अनुक्रम [३३] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः Ebensiting क्रवर्त्तिनः ओदन इव भवेदित्यन्वयः, निपुणैः सूपपुरुषैः-- सूपकारैः सज्जितो-निष्पादितः चत्वारः कल्पा यंत्र स चासौ सेकश्च चतुष्कल्पसेकस्तेन सिक्तः, रसवतीशास्त्राभिशा हि ओदनेषु सौकुमार्योत्पादनाय सेकविषयांश्चतुरः कल्पान् | विदधति, स च ओदनः किंविशिष्ट १ इत्याह-कलमशालिनिर्वर्त्तितः कलमशालिमय इत्यर्थः, विपक्को - विशिष्टपरिपा|कमागतः सवाष्पानि - वाष्पं मुञ्चन्ति मृदूनि कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषा| दिमलापगमात् सकलानि - पूर्णानि सित्थानि यत्र स तथा, अनेकानि शालनकानि - पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः, अथवा मोदक इव भवेदिति, किंविशिष्ट ? इत्याह- परिपूर्णानि - समस्तानि द्रव्याणि - एलाप्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो यथोक्तमात्रानिपरितापादिना पर| मसंस्कारमुपनीतः वर्णगन्धरसस्पर्शाः सामर्थ्यादतिशायिनस्तैर्युक्ता बलवीर्यहेतवश्च परिणामा आयतिकाले यस्थ | अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपेता इति भावः, तत्र पठं शारीरं वीर्य आन्तरोत्साहः, तथा इन्द्रियाणां चक्षुरादीनां बलं स्वस्वविषयग्रहणपाटवं तस्य पुष्टिः- अतिशायी पोषस्तां वर्द्धयति, नन्द्यादित्वादनः, तथा क्षुत्पिपासामथन इति व्यक्तं, तथा प्रधानः कथितो निष्पक्को गुडस्तादृशं वा खण्डं तादृशी वा मत्स्यण्डी - खण्डशर्करा तादृशं वा घृतं तान्युपनीतानि - योजितानि यस्मिन् स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, तथा श्लक्ष्णा-सूक्ष्मा | निर्वस्त्रगालितत्वेन समिता - गोधूमं चूर्णं तद्गर्भः - तन्मूलदलनिष्पन्न इति भावः, परमेष्टकं - अत्यन्तवहभं तदुपयोगि तथा, Fur Ervate & Pune Oy ~ 221 ~ jantaryar
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy