SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ---------------......... ------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक [२०] ७ कुसविकुसविसुद्धरुक्खमूला जाव छन्नपडिच्छन्ना सिरीइ अईव उवसोभेमाणारचिटुंती'ति अत्र व्याख्या-इदं च संकेतवाक्यं अपरेष्वपि व्याख्यास्यमानकल्पहुमसूत्रेषु बोध्यं, चन्द्रस्येच प्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका बरं च तत्सीधु च २ वरा चासो वारुणी च वरवारुणी तथा सुजाताना-सुपरिपाकागतानां पुष्पानां फलानां चोयस्य-गन्धद्रव्यस्य यो निर्यासो-रसस्तेन साराः तथा बहूनां द्रव्याणामुपबृंहणकानां युक्तयो-मीलनानि तासां सम्भार:प्राभूत्यं येषु ते तथा काले-स्वस्वोचित्ते सन्धितदङ्गभूतानां द्रव्याणां सन्धानं योजनमित्यर्थः तस्माज्जायन्ते इति कालसधिजाः, एवंविधाश्च ते आसवाः, किमुक्तं भवति -पत्रादिवासकद्रव्यभेदादनेकप्रकारो वासवः पत्रासवादिरनेन निर्दिष्टो भवतीति, ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, मधुमेरको मद्यविशेषौ रिष्ठाभा-रिष्ठरलवर्णाभा या शास्त्रान्तरे | जम्बूफलकलिकेति प्रसिद्धा दुग्धजाति:-आस्वादतः क्षीरसहशी प्रसन्ना-सुराविशेषः तल्लकोऽपि-सुराविशेषः शतायुहर्नाम या शतवारं शोधितापि स्वस्वरूपं न जहाति सारशब्दस्य प्रत्येकं योजनात् खजूरसारनिष्पन्न आसवविशेषः खर्जूरसारः, मृद्वीका-द्राक्षा तत्सारनिष्पन्न आसवो मृद्वीकासारः कपिशायनं-मद्यविशेषः सुपक्का-परिपाकागतो यः। क्षोदरसः-इक्षुरसस्तनिष्पना वरसुरा, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथास्वरूपं वेदितव्याः, कथंभूता एते मद्यविशेषा इत्याह-वर्णेन प्रस्तावादतिशायिना एवं गन्धेन रसेन स्पर्शेन च ॥४॥ युक्ता-सहिता बलहेतवो वीर्यपरिणामा येषां ते तथा बहवः प्रकारा जातिभेदेन येषां ते बहुमकाराः, तथैवेतिपदं| दीप अनुक्रम [३३] R ~211
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy