________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [२], --------------------------------------------------------- मूलं [१९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१९]
+
गाथा:
| किलेति निश्चये न शक्काः, केऽपि पुरुषा इति शेषः, तं व्यावहारिकपरमाणु सिद्धा इव सिद्धा भगवन्तोऽर्हन्त उत्पन्नकेवलज्ञाना न तु सिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदि-प्रथमं प्रमाणानां-वक्ष्यमाणोत्श्लक्ष्णहक्षिणकादीनामिति, पतेन श्रद्धालून प्रति आगमप्रमाणमभिहितं, तर्कानुसारिणः प्रति प्रयोगः-अणुपरिमाणं कचिद्विश्रान्त । तरतमशब्दवाच्यत्वात् महत्परिमाणवत्, यत्र च विश्रान्तं स परमाणुः, विपक्षे वस्तुनः स्थूलताऽपि नोपपद्यते, न च घणुकादि नार्थान्तरमिति वाच्यं, स च सिधन परमनिकृष्टो निरंश एव सियेत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च, ततः सिद्धः परमाणुः, ननु सिध्यतु सः सूक्ष्मत्वाच न चक्षुरादिगम्यः, पर यदनन्तः सूक्ष्मः परमा-13 शुभिरेको व्यावहारिका परमाणुरारभ्यते स चक्षुराद्यगोचरः शस्त्रच्छेदायगोचरबेति तन्मन्द, उच्यते. द्विविधो हि पुदलपरिणाम:-सूक्ष्मो बादरश्च, तत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्वं शस्त्रच्छे-18 दायविषयत्वमित्यादयो धर्मा भवन्ति, तेन न काप्यनुपपत्तिः, श्रूयते चागमे पुन्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो | यथा द्विपदेशिकः स्कन्धः एकस्मिन्नभःप्रदेशे माति स एव च द्वयोरपि मातीति संकोचविकाशकृत्तो भेदः, दृश्यते च लोकेऽपि पिञ्जितरुतपुञ्जलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह-अनन्तानां व्यावहारिकपरमाणूनां समुदयसमिनिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णशक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया ।
दीप अनुक्रम [२७-३२]
~199~