SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१७] दीप अनुक्रम [२१] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [१], मूलं [१७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः श्रीजम्बूपान्तिचन्द्री या वृतिः ॥ ८७ ॥ पाठान्तरं वाचनाभेदस्तद्गतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्ट योजनानि विष्कम्भेन उपरि चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोकं | सुबोधं । अत्राह पर:- एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरमणी| तत्वेन कथं नान्यतरनिर्णयः १, यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्सु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेद, यदुक्तं श्रीमलयगिरिसूरिभिज्योंतिष्करण्डकवृत्ती - " इह स्कन्दिलाचार्य (तिप) ती दुष्षमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्ती द्वयोः संघमेलापकोऽभवत्, तद्यथा-एको वलभ्यामेको मथुरायां तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः, विस्मृत| योर्हि सूत्रार्थयोः स्मृत्वा २ संघटने भवत्यवश्यं वाचनाभेद" इत्यादि, ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः | पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुपैरिति न काचिदनुपपत्तिः, किन सैद्धान्तिकशिरोमणिपूज्य श्री जिन भद्रगणिक्षमाश्रमणप्रणीत क्षेत्रसमाससूत्रे उत्तरमतमेव दर्शितं यथा--' सबेवि उसहकूडा उबिद्धा अट्ठजोयणे हुंति । बारस अंटू व चउरो मूले मझुवरि विच्छिण्णा ॥ १ ॥” 'मूले विच्छिण' इत्यादि शेषवर्णकः प्राग्वत् । अथास्य पद्मवरवेदिकाद्याह- 'से णं एगाए' इत्यादि, स ऋषभकूटाद्विरेकया पद्मवर Fate & Use Oy ~ 185 ~ १वक्षस्कारे ऋषभकूटाधिकारः स्. १७ ॥ ८७ ॥
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy