________________
आगम
(१८)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[१३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [१२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः
॥ ७३ ॥
| जातं ४१६६९९५१२५० एप वैताढ्यधनुः पृष्ठवर्गः अस्य मूले छेदराशि: ४०८२६४ लब्धकलाः २०४१३२ शेषकलांशाः ७७८२६ लब्धकलानामेकोनविंशत्या भागे लब्धं यथोक्तं मानं १०७४३ अथ किंविशिष्टोऽसी वैताढ्य | इत्याह- 'रुअगे 'त्यादि, रुचकं - ग्रीवाभरणभेदः तत्संस्थानसंस्थितः सर्वात्मना रजतमयः 'अच्छे'त्यादिपदकदम्बकं प्राग्वत्, उभयोः पार्श्वयोर्दक्षिणतः उत्तरतश्च द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः | अत्र यत्पद्मवरवेदिकाद्वयं तत्पूर्वापरतो जगत्या रुद्धत्वान्निरवकाशत्वेनैकी भवनासम्भवात्, अन्यथा 'सबओ समंता संपरिक्खित्ते 'ति वचनेनैकैव स्थादिति, 'ताओ णमिति, सर्व गतार्थ, नवरं पर्वतसमिका आयामेन, वैताढ्य| समाना आयामेनेत्यर्थः, अथैतद्गतगुहाद्वयप्ररूपणायाह- 'बेयद्धस्स णमित्यादि, वैताढ्यस्य पर्वतस्य 'पुरच्छिमपचच्छिमेणं'ति, अत्र सूत्रे पूर्वस्या दिशः पूज्यत्वात् आर्यत्वाद्वा पुरच्छिमेतिशब्दस्य प्रानिपातेऽपि पश्चिमायां पूर्वस्यामिति व्याख्येयं, अत्र प्रन्थे ग्रन्थान्तरे च पश्चिमायां तमिस्रगुहायाः पूर्वस्यां च खण्डप्रपातगुहायाः अभिधानात्, द्वे गुहे प्रज्ञठे, प्राकृतशैल्या च बहुवचनं, उत्तरदक्षिणयोरायते, एतावता य एव वैताढ्यस्य विष्कम्भः स एवानयोरायाम इति भावः, प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तं, अत्र च उमाखातिवाचककृतजम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेतिविशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणं ज्ञेयं, वज्रमयकपाटाभ्यामवघाटिते, आच्छादिते इत्यर्थः एते च द्वे अपि चक्रवर्त्तिकालवज दक्षिणपार्श्वे उत्तरपार्श्वे च प्रत्येकं सदा
Free Diy
~ 157 ~
१वक्षस्कारे |वैताव्यवं र्णनं स. १२
॥ ७३ ॥
www.jmryw