________________
आगम
(१८)
प्रत
सूत्रांक
[७,८]
दीप
अनुक्रम
[७,८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [ ७-८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूडीपशातिचन्द्री - या वृचिः
॥ ५२ ॥
Elean
| तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्त इवेति, तथा 'पुढवीपरिणामाओ' इति पृथ्वीपरिणामरूपाः शाश्वतभावमुपगता बिजयद्वारवत्, चन्द्राननाः- चन्द्रमुख्यः चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः चन्द्रार्जेन - अष्टमी| चन्द्रेण समं सदृशं ललाटं यासां ताः चन्द्रार्द्धसमललाटाः, चन्द्रादप्यधिकं सोमं सुभगं कान्तिमदर्शनं-आकारो यासां | ताः तथा, उल्का इब-गगनाग्निज्वाला इवोद्योतमानाः विद्युतो - मेघवहयस्तासां घना - निविडा मरीचयस्तेभ्यो यच सूर्यस्य दीप्यमानं घनाद्यनावृतं तेजस्तस्मादधिकतरः सन्निकाशः - प्रकाशो यासां तास्तथा, शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकारो यासां तास्तथा, चारुवेषा:-मनोहरनेपथ्याः, पश्चात्कर्मधारयः, अथवा शृङ्गारस्य- प्रथमरसस्थागारमिव-गृहमिव चारु वेषो यासां तास्तथा, प्रासादीया इत्यादिपदचतुष्टयं प्राग्वत्, "विजयस्स णं दारस्स उभओ पासिं दुहओ णिसीहियाए दो दो जालकाडगा पण्णत्ता, ते णं जाठकडगा सवरयणामया अच्छा सण्हा जाव पडिरूवा" विजयस्येत्यादि प्राग्वत्, द्वौ द्वौ जालकटकौ - जालकाकीर्णौ रम्यसंस्थानों प्रदेश विशेषौ प्रज्ञप्तौ, ते च जालकटकाः सर्वरत्नमया: 'अच्छा' इत्यादि प्राग्वत् । "विजयस्स णं दारस्स उभओपासिं दुहओ णिसीहियाए दो दो घंटाओ पण्णचाओ, तासि णं घंटाणं अयमेयारूये वण्णावासे पण्णत्ते, तंजहा-जंबूणयामईओ घंटाओ वइरामईओ लालाओ णाणामणिमया घंटापासगा तवणिज्जमईओ संकलाओ रययामईओ रज्जूओ, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ णंदिस्सराओ दिघोसाओ मंजुघोसाओ सुस्सराओ
Fur Fraternae Cy
~ 115 ~
toesesea
२ वक्षस्कारे विजयद्वारवर्णनं सू.८
॥ ५२ ॥