SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१], -------------------- प्राभृतप्राभूत [६], -------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत चरति अत्रोपसंहारवाक्य 'एगे एवमाहंसुतदेवं मिथ्यारूपाः परप्रतिपत्तीरुपदर्य सम्प्रति स्वमत भगवानुपदर्शयति'वयं पुण'इत्यादि, वयं पुनरेव-वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सरं वदामः, यदुत द्वे द्वे योजने अष्टाचत्वारिंशञ्चैकषष्टिभागान योजनस्थ एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २चारं चरति, चारं चरन् आख्यात इति वदेत् , साम्प्रतमस्यैव वाक्यस्थ स्पष्टावगमनिमित्तं प्रश्नसूत्रमुपभ्यस्यति-तत्थ को हेतू इति वएज्जा' तत्र-एवंविधवस्तुत-बट्र &ावावगतौ को हेतुःका उपपत्तिरिति वदेत् भगवान् , एवमुक्के भगवानाह–ता अयण्ण मित्यादि, इदं जम्बूद्वीप वाक्यं पूर्ववत् परिपूर्ण पठनीय व्याख्यानीयं च, 'ता जया णमित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्घम्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षका उत्कृष्टोऽष्टादशमुहूत्र्तो दिवसो भवति, जघन्या च द्वादशमुहर्ता रात्रिः, 'से निक्खममाणे' इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलानिष्कामन् स सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अमितराणंतरं ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं-बहिर्भूतं द्वितीयं मण्डलमुपसङ्घम्य चारं चरति, 'ता जया णमित्यादि, तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोराने सर्वाभ्यन्तरानन्तरं द्वितीय मण्डलमुपसङ्क्रम्य सूर्येश्वारं चरति, चारं चरितुमारभते, 'तदा णमिति प्राग्वत्, वे योजने अष्टाचत्वारिंशतं च एकषष्टि|भागान् योजनस्य एकैकेन राविन्दिवेन पाश्चात्येनाहोरात्रेण विकम्प्य चारं चरति, इयमत्र भावना-सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूर्वं शनैः शनैस्तदनन्तरं द्वितीयमण्डलाभिमुखं तथा कथंचन मण्डलगत्या परिचमति यथा तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्थापरे च द्वे योजने अतिकान्तो भवति, 34545454555 अनुक्रम [३२] ~80
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy