SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [१५] दीप अनुक्रम [२९] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) • प्राभृतप्राभृत [४], मूलं [१५] प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः सूर्यप्रज्ञविवृत्तिः ( मल० ) ॥ २८ ॥ लादर्वाक्तनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरतः तदा एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, प्रागुक्तयुक्त्या पूर्वमण्डलगतादन्तरपरिमाणादत्रान्तरपरिमाणमस्य पश्चभियोजनैः पञ्चत्रिंशता चैकषष्टिभागर्योजनस्य हीनत्वात्, 'तया ण'मित्यादि, तदासर्वबाह्यान्मण्डलादवतनतृतीय मण्डलचारचरणकालेऽष्टादशमुहूर्त्ता रात्रिर्भवति, चतुर्भिर्मुहूर्त्ते कषष्टिभागैरूना, द्वादशमुहर्त्ता दिवसश्चतुर्भिरेकषष्टिभागैर्मुहर्त्तस्याधिकः । 'एवं खलु इत्यादि, एवम् उक्तप्रकारेण खड- निश्चितमनेनोपायेन एकतोऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्वमण्डलगता दन्तरपरिमाणादनन्तरे अनन्तरे विवक्षिते मण्डले अन्तरपरिमाण| स्याष्टाचत्वारिंशतमेकप ष्टिभागान् द्वे च योजने वर्धयति हापयत्यपरतोऽप्यपरः सूर्य इत्येवंरूपेण एतौ जम्बूद्वीपगतौं सूर्यो तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन्तौ सङ्क्रामन्ती एकैकस्मिन् मण्डले पूर्वपूर्व मण्डलगतादन्तरपरिमाणात् अनन्तरेऽनन्तरे विवक्षिते मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकपष्टिभागान् योजनस्य परस्परमन्तरपरिमाणं निर्वेष्टयन्तौ - हापयन्तौ हापयन्तावित्यर्थः, द्वितीयस्य षण्मासस्य व्यशीत्यधिकशततमे अहोरात्रे सूर्य संवत्सरपर्यवसानभूते सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरतः, 'ता जया ण'मित्यादि, तत्र यदा एतौ द्वौ सूर्यो सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरतः तदा नवनवतियोजन सहस्राणि षट् योजनशतानि चत्वारिंशानि चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः, अत्र चैवं रूपान्तरपरिमाणे भावना प्रागेव कृता, शेषं सुगमम् ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम- प्राभृतस्य प्राभृतप्राभृतं ४ समाप्तं अत्र प्रथमे प्राभृते प्राभृतप्राभृतं ४ परिसमाप्तं F&P On ~69~ १ प्राभृते ४ प्राभृतप्राभृतं ॥ २८ ॥
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy