SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], --------------------प्राभृतप्राभृत , -------------------- मूल [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१००] गाथा: हतारानक्षत्राणि-चन्द्रादित्यग्रहतारानक्षत्रविमानानि, सूत्रे पुंस्त्वनिर्देश प्राकृतत्वात् , तेषां नास्ति गति:-न स्वस्मात् । | स्थानाचलनं नापि चारो-मण्डलगत्या परिधमणं किन्त्ववस्थितान्येव तानि ज्ञातव्यानि । 'एवं जंबुद्दीवे इत्यादि, एवं| सति एकैको चन्द्रसूर्यो जम्बूद्वीपे द्विगुणौ भवतः, किमुक्तं भवति :-द्वी चन्द्रमसी द्वी सूर्यों जम्बूद्वीपे, लवणसमुद्दे तावेको सूर्याचन्द्रमसौ चतुर्गुणी भवतः, चत्वारश्चन्द्राश्चत्वारश्च सूर्या लवणसमुद्रे भवन्तीति भावः, लावणिका-लव-13 |णसमुद्रभवा शशिसूरास्त्रिगुणिता धातकीखण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीखण्डे भवन्तीत्यर्थः । 'दो| चंदा इत्यादि सुगम, । 'धायहसंडे'इत्यादि, धातकीखण्डः प्रभृतिः-आदियेषां ते धातकीखण्डप्रभूतयस्तेषु धातकीखण्डप्रभृतिषु द्वीपेषु समुद्रेषु च य उद्दिष्टाश्चन्द्रा द्वादशादय उपलक्षणमेतत् सूर्या वा ते त्रिगुणिताः-त्रिगुणीकृताः सन्तः । 'आइल्लचंदसहिय'त्ति उद्दिष्टचन्द्रयुक्तात् द्वीपात् समुद्राद्वा प्राक् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्ते आदिमचन्द्रास्सैरादिमचन्द्ररुपलक्षणमेतदादिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे-कालोदादी भवन्ति, तत्र धातकीखण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः पत्रिंशत् , आदिमचन्द्राः षट्, तबधा-दी चन्द्री जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमैश्चन्द्रैः सहिता द्वाचत्वारिंशद् भवन्ति, एतावन्तः कालोदे समुद्रे चन्द्राकाल एप एव करणविधिः सूर्याणामपि, तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदसमुद्रे द्विचत्वारिंशचन्द्रमस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते, जातं पड्विंशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा-द्वी जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे एतरादिमचन्द्रः सहित पडूविंशं शतं जातं चतुश्चत्वारिंशं शतं, एतावन्तः पुष्करवरद्वीपे चन्द्रा दीप अनुक्रम [१३३ -१९६] ~572~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy