________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत , -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८१]
दीप
सर्वबाह्यानन्तरेऽक्तिने द्वितीयमण्डले चारं चरन् विवक्षितः, ततोऽधिकृतसूत्रोपनिपातः, तृतीयायनगते चन्द्रे पश्चिमे भागे प्रविशति बाह्यानन्तरस्थाग्भिागवर्तिनः पाश्चात्यस्यार्द्धमण्डलस्य एकचत्वारिंशत् सप्तपष्टिभागास्ते वर्तन्ते यान । चन्द्रः आत्मना परेण च चीर्णान् प्रतिचरति त्रयोदश च सप्तपष्टिभागास्ते यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति अन्ये | च त्रयोदश सप्तषष्टिभागास्ते यान् चन्द्रः स्वयं परेण च चीर्णान् प्रतिचरति, एतावता परिभ्रमणेन बाह्यानन्तरमाक्तन || पाश्चात्यमर्द्धमण्डलं परिसमाप्तं भवति, तदनन्तरं च तस्मिन्नेव तृतीयायनगते चन्द्रे पौरस्त्यभागे प्रविशति सर्वबाह्याद-18 तिनस्य तृतीयस्थ पौरस्त्यार्द्धमण्डलस्य एकचत्वारिंशत् सप्तषष्टिभागा यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति, ततः परमन्ये ते त्रयोदश भागा यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति, अन्ये च ते त्रयोदश भागा थान् चन्द्र आत्मना परेण च वीर्णान् प्रतिचरति, एतावता सर्वबाह्यान्मण्डलादक्तिनं तृतीयं पौरस्त्यमईमण्डलं परिसमाप्तं भवति, सप्तपटेरपि भागानां परिपूर्णतया जातत्वात् , 'ता'इत्यादि, ततस्तस्मिन्नेव तृतीयायनगते चन्द्रे पश्चिमे भागे प्रविशति सर्व बाह्यान्मण्डलाद कनस्य चतुर्थस्य पाश्चात्यस्यार्द्धमण्डलस्याप्टौ सप्तषष्टिभागा एकं च सप्तपष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य सत्का अष्टादशा भागास्ते वर्तन्ते यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति, एतावता च परिश्चमणेन चान्द्रो मासः परिपूर्णो जातः । सम्प्रति पूर्वोक्तमेव स्मरयन् चन्द्रमासगतमुपसंहारमाह-एवं खलु चंदेणं मासेण'मित्यादि, एवं-उक्तेन प्रकारेण खलु-निश्चितं चान्द्रेण मासेन चन्द्रे त्रयोदश चतुष्पञ्चाशत्कानि जातानि द्वे च त्रयोदशके यानि चन्द्रः परेणेव पीर्णानि प्रतिचरति, वर्तमानकालनिर्देशः सकलकालयुगस्य प्रथमे चान्द्रे मासे एवमेव द्रष्टव्यमिति ज्ञापनार्थः,
अनुक्रम [११३]
FhiralMAPIMIREUMORE
~498~