________________
आगम
(१७)
प्रत
सूत्रांक
[ ७८ ]
दीप
अनुक्रम
[११०]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [ - ],
मूलं [ ७८ ]
प्राभृत [१२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education inteman
इयमत्र भावना - एकया दवरिकया बुद्ध्या कल्पितया पूर्वापरायतया एकया च दक्षिणोत्तरायतया मंडल समकालं विभ व्यते, विभक्तं च सच्चतुर्भागतया जातं, तद्यथा-एको भाग उत्तरपूर्वस्थामेको दक्षिणपूर्वस्यामेको दक्षिणापरस्यामेकोऽपरोतरस्यामिति, तत्र दक्षिणपौरस्त्ये दक्षिणपूर्वे चतुर्भागमण्डले - चतुर्भागमात्रे मण्डले मण्डलचतुर्भाग इत्यर्थः, एकत्रिंशद्धा|गप्रमाणे सप्तविंशतिं भागानुपादाय गृहीत्वा आक्रम्येत्यर्थः, अष्टाविंशतितमं च भागं विंशतिधा छित्त्वा तस्य सत्कानष्टादश भागानुपादाय आक्रम्य शेपत्रिभिरेक त्रिंशत्सत्कै भगिर्द्वाभ्यां च कलाभ्यामेकस्य एकत्रिंशत्सत्कस्य भागस्य सत्काभ्यां द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलं मण्डलचतुर्भागमसम्प्राप्तोऽस्मिन् प्रदेशे स चन्द्र छत्रातिच्छत्ररूपं योगं युनक्ति-करोति, एनमेव 'तयथेत्यादिना भावयति, उपरि चन्द्रो मध्ये नक्षत्रमधस्ताच्चादित्य इति, इह मध्ये नक्षत्रमित्युक्तं ततो नक्षत्रविशेषप्रतिपत्त्यर्थं प्रश्नं करोति-'तं समयं च ण'मित्यादि, तस्मिन् समये चन्द्रः केन नक्षत्रेण युनक्ति योगं करोति १, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, तस्मिन् समये चित्रया सह योगं करोति, तदानीं च चित्रायाश्वरमसमयः इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां द्वादशमं प्राभृतं समाप्तं
तदेवमुक्तं द्वादशं प्राभृतं सम्प्रति त्रयोदशमारभ्यते तस्य चायमर्थाधिकारो यथा- 'चन्द्रमसो वृद्ध्यपवृद्धी वक्तव्ये' इति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहते चंदमसो बोवही आहितेति वदेजा ?, ता अट्ठ पंचासीते मुहुत्तसते तीसं च बावद्विभागे मुहू
अत्र द्वादशं प्राभृतं परिसमाप्तं
For Personal & Private Use Only)
अथ त्रयोदशं प्राभृतं आरभ्यते
~480~