SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [११] दीप अनुक्रम [२५] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) • प्राभृतप्राभृत [१], मूलं [११] प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीता वृत्तिः पवृद्धी रात्रिन्दिवानां कथं भवत इत्याह-'मुहुत्ताणं चयोवचएण' मुहूर्त्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेन - अधिकत्वेन वृद्धिरपचयेन-हीनत्वेनापवृद्धिः, इयमत्र भावना - परिपूर्णपखदशमुहूर्त्तप्रमाणे दिवसरात्री न भवतो, हीनाधिक पञ्चदशमुहूर्त्त| प्रमाणे तु दिवसरात्री भवतः, एवं 'अन्नस्थ वा अणुवायगईए' इति वाशब्दः प्रकारान्तरसूचने अन्यत्रानुपातगते:--अनुसार| गतेः पञ्चदशमुहूर्ती दिवसः पञ्चदशमुहूर्त्ता वा रात्रिर्न भवति, अनुसारगत्या तु भवत्येव, सा चानुसारगतिरेवं-यदि त्र्यशी| त्यधिकशततमे मण्डले षण्मुहूर्त्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ त्रयो मुहूर्त्ताः प्राप्यन्ते, त्र्यशीत्यधिकशतस्य वाऽर्द्ध सार्द्धा एकनवतिः तत आगतं एकनवतिसयेषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्यार्थे गते पञ्चदश मुहूर्त्ताः प्राप्यन्ते, तवस्तत ऊ रात्रिकल्पनायां पञ्चदशमुत्तों दिवसः, पञ्चदशमुहूर्त्ता च रात्रिर्लभ्यते नान्यथेति, 'गाहाओ भणितव्बाओ'ति अत्र अनन्तरोक्तार्थसङ्ग्राहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबाहु खामिना या निर्युतिः कृता तत्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरमुप्रसिद्धा गाथा वर्त्तन्ते ता 'भणितच्या' पठनीयाः, ताश्च सम्प्रति कापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम प्राभृतस्य प्राभृतप्राभृतं १ समाप्तं तदेवमुक्तं प्रथमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं सम्प्रति द्वितीयमर्द्धमण्डल संस्थितिप्रतिपादकं विवक्षुरिदं प्रश्नसूत्रमाह Fin अत्र प्रथमे प्राभृते प्राभृतप्राभृतं १ परिसमाप्तं अथ प्रथमे प्राभृते प्राभृतप्राभृतं २ आरभ्यते ~ 44~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy