SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [११] दीप अनुक्रम [२५] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) • प्राभृतप्राभृत [१], मूलं [११] प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः ( मल०) सूर्यप्रज्ञ- 4 दिवसरात्रविषय मुहूर्त्ते कषष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रामन् मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखं गच्छन् तिवृत्तिः सूर्यः, 'तयाणंतरा' इति तस्माद्विवक्षितादनन्तरान्मण्डलात् ' तयानंतर' मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क्रामन् २ एकैकस्मिन् मण्डले मुहूर्त्तस्य द्वौ द्वावेकषष्टिभागी दिवसक्षेत्रस्य 'निर्वेष्टयन् २' हापयन् २ रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्त्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ व्यशीत्यधिकशततमे अहोरात्रे प्रथमपण्मासपर्यवसानभूते सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरति 'ता' इति ततो यदा तस्मिन् काले अहोरात्ररूपे णमिति प्रागिव सूर्यः सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिचमणगत्या शनैः शनैः निष्क्रम्य सर्ववा मण्डलमुपसङ्गम्य चारं चरति तदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय' मर्यादी कृत्य द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि 'षट्षष्टानि षट्षष्ट्यधिकानि मुहूर्त्तेक पष्टिभागशतानि दिवसक्षेत्रस्य 'निर्वेष्ट्य' हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहत्कषष्टिभागशतानि षट्षष्ट्यधिकानि अभिवर्द्धा चारं चरति, तदा णमिति पूर्ववत्, उत्तमकाष्ठा प्राप्ता - परमप्रकर्षप्राप्ता उत्कर्षिका उत्कृष्टा अष्टादश मुहर्त्ताअष्टादशमुहूर्त्तप्रमाणा रात्रिर्भवति, जघन्यश्च द्वादशमुहर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथमं षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्यत्वात् एष व्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं । 'से पविसमाणे' इत्यादि, 'स'सूर्यः सर्ववायान्मण्डलाभ्यन्तरं प्रविशन् द्वित्तीयं पण्मासमाददानः प्रतिपद्यमानो द्वितीयस्य पण्मासस्य प्रथमे अहोरात्रे सर्वबाह्यान्मण्डलादर्वागनन्तरं द्वितीयं मण्डलमुपसङ्गम्य चारं चरति 'ता' इति तत्र यदा सूर्यो बाह्यात्- सर्व बाह्यान्मण्डलादर्वाक्तनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामूना अष्टा ॥ १४ ॥ * Jan Eiration intimanal F&P On ~ 41~ प्राभृते प्राभूत प्राभृर्त ॥ १४ ॥
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy