SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६१-६२ दीप अनुक्रम [९२-९३] कानि ३६६०, एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहर्चा इति प्रत्येकमेतेषु पथ्यधिकषट्त्रिंशच्छतसङ्ग्येषु भागेषु त्रिंशदागकल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहस्रमष्टानवतिः शतानि १०९८००, तत इत्थं मण्डलस्य भागान् परिकल्प्य | भगवान् प्रतिवचनं ददाति-'ता'इति तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्येऽस्तीति निपातत्वादापत्वाद्वा स्तस्ते नक्षत्रे ययोः प्रत्येक षट् शतानि त्रिंशानि-त्रिंशदधिकानि सप्तपष्टित्रिंशद्भागानां सीमाविष्कम्भः-सीमापरिमाणं, तथाऽस्तीति सन्ति तानि नक्षत्राणि येषां प्रत्येक पश्चोत्तर सहस्रं सप्तषष्टित्रिंशदागानां सीमाविष्कम्भा, सन्ति तानि नक्षत्राणि येषांला प्रत्येकं द्वे सहने दशोत्तरे सप्तपष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येक बीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, एवं भगवता सामान्येनोके भगवान् गौतमो विशेषावगमनिमित्त भूयः प्रश्नयति-ता एएसिमित्यादि, तत्र एतेषां षट्पश्चाशतो नक्षत्राणां मध्ये कतराणि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, 'तं चेव उच्चारेय'ति तदेवानन्तरोक्तमुक्तप्रकारेणोच्चारयि-IN मतव्यं, तद्यथा-'कयरे नक्खत्ता जेसि सहस्सं पंचोत्तरं सत्तविभागतीसहभागाणं सीमाविक्खंभो, कयरे नक्खत्ता जेसिं दो सहस्सा दमुत्तरा सत्तविभागातीसहभागाणं सीमाचिक्खंभो'इति, चरमं तु सूत्रं साक्षादाह'कयरे नक्खत्ता इत्यादि, एतानि त्रीण्यपि सूत्राणि सुगमानि (च), भगवानाह-'ता एएसि 'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तपष्टिभागत्रिंशदागानां सीमाविष्कम्भः ते द्वे अभिजिन्नक्षत्रे, कथमेतदवसीयते इति चेत् , उच्यते, इह एकैकस्याभिजितो नक्षत्रस्य सप्तपष्टि ~368~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy