________________ आगम (17) "चन्द्रप्रज्ञप्ति” - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [10], -------------------- प्राभृतप्राभृत [20], ------------------- मूलं [16] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [16] दीप पुष्यः 62, एतदुपसंहारमाह-एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वाषष्टिसङ्ख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि:31 एवं प्रागुक्तकरणवशादुत्तराद्देऽपि द्वाषष्टिसलयेषु पर्वस्ववगन्तव्यानि / सम्पति कस्मिन् सूर्यमण्डले किं पर्व समाप्ति यातीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं करणं तदभिधीयते-"सूरस्सवि नायवो सगेण अयण मंडलविभागो / अयणमिन जे दिवसा स्वहिए मंडले हवइ // 1 // " अस्या व्याख्या--सूर्यस्यापि पर्वविषयो मण्डलविभागो ज्ञातव्यः स्वकीयेनाय नेन, किमुक्तं भवति -सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्य तस्य पर्वणः परिसमाप्तिरवधारणीयेति, सातत्र अयने शोधिते सति ये दिवसा उद्धरिता वर्तन्ते तत्सचे रूपाधिके मण्डले सदीप्सितं पर्व परिसमाप्तं भवतीति वेदितव्यं, एषा करणगाथाऽक्षरघटना, भावार्थस्त्वयम्-इह यत्पर्व कस्मिन् मण्डले समाप्तमिति ज्ञातुमिष्यते तत्सङ्ख्या ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च रूपाधिका क्रियते, ततः सम्भवन्तोऽवमरात्राः पात्यन्ते, ततो यदि त्र्यशी-1 त्यधिकेन शतेन भागः पतति तर्हि भागे हते यलब्धं तान्ययनानि ज्ञातव्यानि, केवलं या पश्चादिवससमयाऽवतिष्ठते तदन्तिमे मण्डले विवक्षितं पर्व समाप्तमित्यवसेयं, उत्तरायणे वर्तमाने बाह्यं मण्डलमादिः कर्त्तव्यं दक्षिणायने च सर्वाभ्यन्तरमिति / सम्प्रति भावना क्रियते-ततः कोऽपि पृच्छति-कस्मिन् मण्डले स्थितः सूर्यो युगे प्रथमं पर्व समापयतीति, इह प्रथम पर्व पृष्टमित्येकको ध्रियते, स पश्चदशभिर्गुण्यते, जाताः पञ्चदश, अत्रैकोऽप्यवमरात्री न सम्भवतीति न किमपि पात्यते, ते च पश्चदश रूपाधिकाः क्रियन्ते, जाता षोडश, युगादौ च प्रथमं पर्व दक्षिणायने, तत आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षोडशे मण्डले प्रथम पर्व परिसमाप्तमिति / तथाऽपरः पृच्छति-चतुर्थ पर्च कस्मिन् मण्डले परिसमामो अनुक्रम [8] ~334~