________________
आगम
(१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभूत [१], -------------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रद्धा प्रवर्तत इति, अत्रीच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृत्तश्रद्धः?, उच्यते यत उत्पन्नश्रद्ध'इति, हेतुत्वप्रदर्शन
चोपपन्न, तस्य काव्यालङ्कारत्वात् , यथा 'प्रवृत्तदीपामप्रवृत्तभास्करा, प्रकाशचन्द्रां बुबुधे विभावरी'मित्यत्र यद्यपि प्रवृत्त*दीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीप्तत्वादेर्हेतुतयोपन्यस्तमिति समीचीनं, 'उप्पन्नसहे
उप्पन्नसंसए''उप्पन्नकोउहल्ले' इति प्राग्वत, तथा संजायसहे'इत्यादि पदपदं प्राग्वत्,नवरमिह सम्शब्दः प्रकोंदिवचनो वेदितव्यः, तत 'उहाए उलेह' इति उत्थानमुत्था ऊर्व-वर्तनं तया उत्तिष्ठति, इह 'उद्वेद' इत्युक्त क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठते ततस्तद्व्यवच्छेदार्थमुत्थयेत्युक्तम्, 'जेणेवेत्यादि प्राकृतशैलीवशादव्ययत्वाच्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते 'तेणेच'त्ति तस्मिन् दिग्भागे उपागच्छति, इह | वर्तमानकालनिर्देशस्तकालापेक्ष या उपागमनक्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतवानिति द्रष्टव्य, उपागम्य च श्रमणं भगवन्तं महावीरं कर्मतापन्नं विकृत्वा-त्रीन् वारान् आदक्षिणप्रदक्षिणं करोति, आदक्षिणात्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणः तं करोति, कृत्वा वन्दते-स्तौति नमस्यत्ति-कायेन प्रणमति, वन्दित्वा नमस्थित्वा च 'न'नैव अत्यासन्नोऽतिनिकटः अवग्रहपरिहारात् अथवा नात्यासन्नस्थाने वर्तमान इति गम्यं, तथा 'न' नैवातिदूरोऽतिविप्रकृष्टोऽनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने 'सुस्सूसमाणे'त्ति भगवचनानि
श्रोतुमिच्छन्, 'अभिमुत्ति अभि-भगवन्तं प्रति मुखमस्येत्यभिमुखः 'विणयेण'त्ति विनयेन हेतुना 'पंजलियडे'त्ति | 2 ४ीप्रकृष्ट:-प्रधानो ललाटतटपटितत्वेन अञ्जलि-हस्तन्यासविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, भार्योढादेराकृतिग-1*
णतया कृतशब्दस्य परनिपात: 'पज्जुवासेमाणे इति पर्यपासीन:-सेवमान:, अनेन विशेषणकदंबकेन श्रवणविधिरूपदर्शितः, उक्तं च "निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पञ्जलिउडेहिं भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ||१|| invoy wo इति, 'एवं वदासि' त्ति एवं-वक्ष्यमाण प्रकारेण महर्तवृद्धिअपवृद्धि वक्तव्यता विषयं प्रश्नं अवादीत् उक्तवान् ।
अनुक्रम
[२१]
~30