________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३५]
सन्ति तानि नक्षत्राणि यानि नक्षत्राणि 'उभयभागानि' उभयं-दिवसरात्री तस्य दिवसस्य रात्रेश्चेत्यर्थः, चन्द्रयोगस्यादिमधिकृत्य भागो येषां तानि तथा, तथाहि-बर्द्धक्षेत्राणि, द्वितीयमद्धे यस्य तद् व्यर्ध सार्द्धमित्यर्थः, व्यर्द्ध-सार्द्धमहोरात्रप्रमितं क्षेत्रं येषां तानि तथा, अत एव पञ्चचत्वारिंशन्मुहूतानि प्रज्ञप्तानि, एवं भगवता सामान्येनोक्त विशेषावबोधनार्थ। भगवान् गौतमः पृच्छति-ता एएसिण'मित्यादि सुगम, भगवान् प्रतिवचनमाह-ता एएसि 'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहर्तानि प्रज्ञप्तानि तानि षट्, तद्यथा-'पुषपुट्ठवया' इत्यादि, एतच्चानन्तरे एव प्राभृतप्राभृते योगस्यादौ चिन्त्यमाने भावयिष्यते, तथा तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञतानि तानि दश, तद्यथा-'अभिई' इत्यादि, तथा तत्र-तेषां अष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि नक्तंभागानि अपार्द्धक्षेत्राणि पञ्चदशमुहूर्तानि प्रज्ञधानि तानि षट् ,तद्यथा-'सयभिसया'इत्यादि,तथा तत्र-तेपामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राण्युभयभागानि तानि ब्बर्द्धक्षेत्राणि पञ्चचत्वारिंशन्मुहर्तानि तानि षट् , तद्यथा-'उत्तरापुट्ठबया इत्यादि, सर्वत्रापि च भावना अग्रेऽनन्तरमेव भावयिष्यते ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- ३ समाप्तं
तदेवमुक्तं तृतीयं प्राभृतप्राभृतं, सम्प्रति चतुर्थमारभ्यते-तस्य चायमाधिकारो 'योगस्यादिर्वकव्य' इति किञ्च-पूर्वमनन्तरमाभृतमाभृते नक्षत्राणां पूर्वभामगताधुकं,तच्च योगस्यादिपरिज्ञानमन्तरेण नावगन्तुं शक्यते ततस्तद्विषयं प्रश्नसूत्रमाह
अनुक्रम
[४९]
FairaMsrivaaraswant
अथ दशमे प्राभृते प्राभृतप्राभृतं- ३ परिसमाप्तं
अथ दशमे प्राभृते प्राभृतप्राभृतं- ४ आरभ्यते
~222~