________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], --------------------प्राभृतप्राभृत , -------------------- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
82+%A
प्रत सूत्रांक [३१]
155
5
तप्रमाणां वक्ष्यति, परतीथिकास्तु प्रतिनियतामेव प्रतिदिवस देशविभागेनेच्छति ततः प्रथमतस्तन्मताम्येषोपदर्शयति'तत्थे'त्यादि, तत्र-तस्मिन् देशविभागेन प्रतिदिवसं प्रतिनियतायाः पौरुष्याछायाया विषये षण्णवतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां षण्णवतेः परतीथिकानां मध्ये एके एवमाहुः, ता इति पूर्ववत्, अस्ति स देशो यस्मिन् देशे सूर्य आगतः सन् एकपौरुषीं-एक पुरुषप्रमाणां पुरुष ग्रहणमुपलक्षणं सर्वस्यापि प्रकाश्यवस्तुनः स्वप्रमाणां छायां निर्वर्तयति, अनोपसंहार:-'एगे एवमाईसु'१, 'एके पुनरेवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्यों द्विपौरुषी-द्विपुरुषप्रमाणां पुरुषमणस्योपलक्षणत्वात् सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणामित्यर्थः, छायां निर्वर्तयति, अनोपसंहारः-एगे एचमाहंसु' २, "एवं'मित्यादि, एवमुक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन-सूत्रपाठगमेन दोपप्रतिपत्तिगतमपि सूत्रं नेतव्यं तावद्याषचरमप्रतिपत्तिगतं सूत्र, तदेव खण्डशो दर्शयति-'छन्नउ'इत्यादि, एतच्चैवं परिपूर्ण द्रष्टव्यं-'एगे पुण पषमाइंसु, अस्थि णं से देसे जंसि णं देसंसि सूरिए छन्नाउइपोरसिं छायं निवत्ता आहियत्तिवएजा एगे एवमाहंसु' मध्यमप्रतिपत्तिगतास्त्वालापकाः सुगमत्वात् स्वयं परिभावनीयाः, सम्प्रत्येतासामेव षण्णवतिप्रतिपत्तीनां भावनिकां चिकीर्षु । राह-तत्धे'त्यादि, तत्र-तेषां षण्णवतिपरतीथिकानां मध्ये ये ते वादिन एवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्य एकपौरुषी-प्रकाश्यवस्तुनः स्वप्रमाणां छायां निर्वःयति त एवं स्वमतविभावनार्थमाहुः-'ता सूरियरस ण'मित्यादि, ता इति पूर्ववत्, सूर्यस्य सर्वाधस्तनात् सूर्यप्रतिधेः-सूर्यप्रतिधानात् सूर्यनिवेशादित्यर्थः बहिनिःसृता या लेश्यास्ताभिः 'ताडिजमाणाहिं'ति ताड्यमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद्यावति सूर्य
+5
अनुक्रम [४५]
+
कर
FitneralMAPINANORN
~208~