________________
आगम
(१७)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम [४४]
----- प्राभृतप्राभृत [-],
मूलं [३०]
प्राभृत [९], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञ
तिवृत्तिः ( मल० )
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
--
॥ ९३ ॥
| यश्च पीठफलकादीनां सूर्यलेदयासंस्पृष्टानां सन्ताप उपलभ्यते स तदाश्रितानां सूर्यलेश्यापुद्गलानामेव स्वरूपेण, न पीठफलकादिगतानां पुद्गलानामिति न प्रत्यक्षविरोधः, ते णमिति प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् बाह्यान् * पुद्गलान्न सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्ततत्वात् इतिशब्दः प्राग्वत् व्यक्तः, 'एस ण'मित्यादि, एतत्* एवंस्वरूपं 'से' तस्य सूर्यस्य तापक्षेत्रं समितं-उपपन्नमिति, अत्र उपसंहारमाह- 'एगे एवमाहंसु' २, एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, णमिति प्राग्वत् ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गला अस्तीति प्राकृतत्वानिपातत्वाद्वा सन्ति एककाः केचन पुद्गला ये सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते - सन्तापमनुभवन्ति, तथा सन्त्येककाः केचन पुद्गला ये न सन्तप्यन्ते तत्र ये सन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् बाह्यान् पुद्गलान् अस्त्येतत् यत् एककान्- कांश्चित्सन्तापयन्ति, अस्त्येतद्यदेककान् कांश्चिन सन्तापयन्ति, इतिशब्दः पूर्ववत्, 'एस ण'मित्यादि, एतत् एवंस्वरूपं 'से' तस्व | सूर्यस्य समितं-उपपन्नं तापक्षेत्रं, अत्रोपसंहारमाह-'एगे एवमाहंसु' ३ । एतास्तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपास्तथा च एता व्युदस्य भगवान् भिन्नं स्वमतमाह-- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता जईए' (जाओ इमाओ) इत्यादि, ता इति पूर्ववत्, या इमाः प्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देवानां सत्केभ्यो विमानेभ्यो | लेश्या उच्छूढाः, एतदेव व्याचष्टे - अभिनिःसृतास्ताः प्रतापयन्ति-वाह्यं यथोचितमाकाशवर्त्ति प्रकाश्यं प्रकाशयन्ति, एतासां चेत्थं विमानेभ्यो निःसृतानां लेश्यानामन्तरेषु-अपान्तरालेष्वन्यतराश्छिन्नदेश्याः सम्मूर्च्छन्ति, ततस्ता मूलच्छिन्ना लेश्याः | सम्मूर्च्छिताः सत्यस्तदनन्तरान् बाह्यान् पुद्गलान् संतापयन्ति, इतिशब्दः पूर्ववत्, 'एस ण'मित्यादि, एतत् एवंस्वरूप,
Eration intimat
F&P Uw On
~ 199~
९ प्राभृते लेश्या सु ३०
॥ ९३ ॥