SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [२३] दीप अनुक्रम [३७] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) • प्राभृतप्राभृत [३], मूलं [२३] प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः त्परतो दृष्टिपथप्रासतां हापयन् विनिर्गतस्तेनैव क्रमेण सर्वबाह्यान्मण्डलादवनेषु मण्डलेषु दृष्टिपथप्राप्ततामभिवर्द्धयन् प्रविशति, तत्र सर्वबाह्यमण्डलावा कनद्वितीय मण्डलगतात् दृष्टिपथप्रासतापरिमाणात् सर्वबाह्यमण्डले पञ्चाशीतिर्योज नानि नव पष्टिभागान् योजनस्य एकं च षष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्कान् षष्टिभागान् हापयति, एतञ्च मागेव| भावितं, ततस्तस्मात्सर्वबाह्यान्मण्डलादव ने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापैरिमाणेऽभिवर्द्धयति ध्रुवं ततोऽर्वाक्तनेषु मण्डलेषु यस्मिम् २ मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते (तत्र तत्र ) तृतीयमण्डलादारभ्य तत्तन्मण्डलसायां षट्त्रिंशद् गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यामेवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायां द्व्यशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यलभ्यते तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशिना सहितं पूर्वपूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र २ मण्डले द्रष्टव्यं तद्यथा-तृतीये मण्डले षट्त्रिंशत् एकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जाता पत्रिंशदेव, सा ध्रुवराशेरपनीयते, जातं शेषमिदं पञ्चाशीतियोंजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकषष्टिभागाश्चतुर्विंशतिः ८५ एतेन सहितं पूर्वमण्डलगतं दृष्टिपथप्राप्त तापरिमाणं एकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशत्वष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३१९१६ । इत्येवंरूपं क्रियते, ततोऽधिकृते तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च प्रागेवोपदर्शितं चतुर्थे मण्डले पत्रिंशद् द्वाभ्यां गुण्यते, गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्तता परिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं Jain Eration Indemn F&P Us On ~136~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy