________________
आगम
(१७)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३७]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृत [२],
• प्राभृतप्राभृत [३],
मूलं [२३]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
Jain Estration in
| रूपं प्रागुक्तात् षडशीतियोजनानि पञ्च षष्टिभागा योजनस्य एकषष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागा इत्येतस्माच्छो-ध्यते, शोधिते च तस्मिन् स्थितानि पश्चात् व्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्का | द्विचत्वारिंशदेकपष्टिभागाः ८३ । एतावद् द्वितीये मण्डले दृष्टिपथप्राप्तताविषये सर्वाभ्यन्तरमण्डलगतात् दृष्टिपथ| प्राप्ततापरिमाणात् हानौ प्राप्यते, किमुक्तं भवति १-सर्वाभ्यन्तरमण्डलगतात् दृष्टिपथप्राष्ठतायां हानी पुर्व, अत एव | ध्रुवराशिपरिमाणात् द्वितीये मण्डले दृष्टिपथप्राप्ततापरिमाणमेतावता हीनं भवतीति एतच्चोत्तरोत्तरमण्डल विषयदृष्टिपथप्राप्तताचिन्तायां हानौ ध्रुवं, अत एव ध्रुवराशिरिति ध्रुवराशेरुत्पत्तिः, ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीये मण्डले | एष एव ध्रुवराशिः एकस्य षष्टिभागस्य सत्कैः षटूत्रिंशतैकषष्टिभागैः सहितः सन् यावान् भवति तद्यथा-व्यशीतियोंजनानि चतुर्विंशतिः षष्टिभागा योजनस्य सप्तदश एकस्य पष्टिभागस्य सत्का एकषष्टिभागा इति एतावान् द्वितीयमण्डल - गतात् दृष्टिपथप्राष्ठतापरिमाणात् शोध्यते, ततो भवति यथोकं तस्मिन् तृतीये मण्डले दृष्टिपथप्राप्तताविषयं परिमाणं, | चतुर्थे मण्डले स एव ध्रुवराशिद्वसप्तत्या सहितः क्रियते, चतुर्थं हि मण्डलं तृतीयापेक्षया द्वितीयं ततः पट्त्रिंशद् द्वाभ्यां गुण्यते, गुणिता च सती द्विसप्ततिर्भवति, तया च सहितः सन् एवंरूपो जातरूयशीतियजनानि चतुवैिशतिः षष्टिभागा | योजनस्य त्रिपञ्चाशदेकस्य षष्टिभागस्य सत्का एकपष्टिर्भागाः ८२३ । एतावान् तृतीयमण्डलगतात् दृष्टिपथप्राप्त तापरिमाणात् शोध्यते, ततो यथावस्थितं चतुर्थे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चेदम्- 'सप्तचत्वारिंशद्योजनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दश एकषष्टिभागाः ४७०१३६
F&PO
~130~