SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [२३] दीप अनुक्रम [३७] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) • प्राभृतप्राभृत [३], मूलं [२३] प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः मण्डल चार चरणकाले दिवसरात्री तथैव-प्रागिव वेदितव्ये, ते चैवम्- 'तथा णं अहारसमुहुते दिवसे हवइ, चउहिं एगडिभागमुहुतेहिं ऊणे दुवालसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेहिं अहिया' इति, सम्पति चतुर्थादिषु मण्डलेष्वविदेशमाह-- ' एवं खल्वि'त्यादि, एवं उकेन प्रकारेण खलु निश्चितमेवेन-अनन्तरोदितेनोपायेन शनैः शनैस्तत्तद्बहिर्म ण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनन्तराम्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण सङ्क्रामन् सङ्क्रामन् एकैकस्मिन् मण्डले मुहूर्त्तगतिमित्यच सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वाद्भवति प्राकृतलक्षणवशात् सप्तम्यर्थे द्वितीया, यथा--'कस्तो रक्ति मुद्धे । पाणियसद्धा सउणयाण' मित्यन [ कुतो रात्रौ मुग्धे ! पानीयश्रद्धा शकुनका नाम ] ततोऽयमर्थः- मुहूर्त्तगतौ अष्टादश २ षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान्निश्चयतः किश्चिदूनानभिवर्द्धयमानः २' पुरिसच्छायमिति पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः तस्यामेकैकस्मिन् मण्डले चतुरशीतिः २ 'सीपाई'ति शीतानि किञ्चिदयूनानीत्यर्थः, योजनानि निर्वेष्टयन् २- हापयन्नित्यर्थः, इदं च स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं प्रयशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्यं एकस्य षष्टिभागस्य एकपष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये विषयहानी ध्रुवं ततः सर्वभ्यन्तरान्मण्डलात्तृतीयं यन्मण्डलं तत आरभ्य यस्मिन् यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तत्तन्मण्डलसपया षटूत्रिंशद् गुण्यते, तद्यथा सर्वाभ्यन्तरान्मण्डलात्तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां पञ्चमे त्रिभिर्यावत् सर्ववा मण्डले व्यशीत्यधिकेन शतेन, गुणयित्वा च ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिष्ठे सति यद्भवति तेन namatsind F&PO ~ 128~
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy