SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२०] दीप अनुक्रम [३०] सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:) - ----- प्राभृतप्राभृत [८], मूलं [२०] प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः जया णमित्यादि, तत्र यदा णमितिवाक्यालङ्कारे सर्ववाह्यानन्तरमर्वाचनं द्वितीयं मण्डलमुपसङ्गम्य चारं चरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकपष्टिभागा योजनस्य बाहस्थेन, एकं योजनशतसहस्रं षट् च योजनशतानि चतुष्पखाशदधिकानि पशितिश्चैकषष्टिभागा योजनस्य १००६५४२१ आयामविष्कम्भेन- आयामविष्कम्भाभ्यां तथाहि एकतोऽपि तन्मण्डलं सर्वबाह्यमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे द्वे योजने विमुच्याभ्यन्तरमवस्थितमपरतोऽपि ततो योजनद्वयस्याष्टा चत्वारिंशतश्चैकषष्टिभागानां द्वाभ्यां गुणने पश्च योजनानि पञ्चत्रिंशश्चैकषष्टिभागा योजनस्येति भवति एतत्सर्वबाह्यमण्डलगत विष्कम्भायामपरिमाणात् शोभ्यते, ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे योजनशते सप्तनवत्यधिके ३१८२९७ परिक्षेपतः प्रक्षिप्तं तथाहि पूर्व मण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणे पच योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति व्यन्ति, पञ्चानां योजनानां पञ्चत्रिंशतश्चैकपष्टिभागानां परिरये सप्तदश योजनानि अष्टात्रिंशच्चैकषष्टिभागा योजनस्य भवन्ति परं सूत्रकृता व्यवहारनयमतेन परिपूर्णान्यष्टादश योजनानि विवक्षितानि, प्रागुक्तात्सर्वबाह्यमण्डलपरिरयपरिमाणात् त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि इत्येवंरूपादष्टादश योजनानि शोध्यन्ते, ततो यथोक्तमधिकृतमण्डल परिश्यपरिमाणं भवति, 'तया णं राइंदियाणं तह चेव'ति तदा रात्रिन्दिवं रात्रिदिवसौ तथैव वक्तव्यौ तौ चैवम्-तथा णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्टिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे हव दोहि एगद्विभागमुहुत्तेहि अहिए' इति, 'से पविसमाणे इत्यादि, ततः स सूर्यस्तस्मादपि द्वितीयस्मान्मण्डलात्प्रागुक्त Eucation International For Pass Use Only ~95~ www.landbrary or
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy