SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२०] दीप अनुक्रम [३०] सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:) - मूलं [२०] प्राभृत [१], ----- प्राभृतप्राभृत [८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः वसानभूते त्र्यशीत्यधिकशततमे अहोरात्रे सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे, सूर्यः सर्वत्राह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा तत्सर्वबाद्यं मण्डलपदं अष्टचत्वारिंशदेकपष्टि भागा योजनस्य बाहल्येन एक योजनशतसहस्रं पट् शतानि षष्ट्यधिकानि १००६६० आयामविष्कम्भेन- आयामविष्कम्भाभ्यां तथाहि - सर्वाभ्यन्तरान्मण्डलात्परतः सर्वबाह्यं मण्डलं पर्यवसानीकृत्य त्र्यशीत्यधिकं मण्डलशतं भवति, मण्डले २ च विष्कम्भे २ परिवर्द्धन्ते पश्ञ्च २ योजनानि पञ्चत्रिंशश्चैकषष्टिभागा योजनस्य, ततः पञ्च योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि ९१५, येऽपि च पञ्चत्रिंशदेकषष्टिभागा योजनस्य तेऽपि व्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि चतुःषष्टिः शतानि पश्चोत्तराणि ६४०५, तेषामेकषष्ट्या भागे हृते लब्धं पञ्चोत्तरं योजनशतं १०५, एतत्पूर्वस्मिन् राशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि १०२०, एतानि सर्वाभ्यन्तरमण्डलविष्कम्भायामपरिमाणे अधिकत्वेन प्रक्षिप्यन्ते, ततो यथोक्तं सर्वबाह्यमण्डलगतविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५ परिक्षेपतः, नवरं पञ्चदशोत्तराणि किञ्चिश्यूनानि द्रष्टव्यानि, तथाहि - अस्य मण्डलस्य विष्कम्भो योजनलक्षं पट्र योजनशतानि षष्ट्यधिकानि १००६६०, अस्य वर्गों विधीयते, जात एककः शून्यमेककत्रिको द्विकञ्चतुष्कस्त्रिकः पञ्चकः पङ्को द्वे शून्ये १०१२२४३५६००, ततो दशभिर्गुणने जातमेकमधिकं शून्यं १०१३२४३५६०००, अस्य वर्गमूलानयने लब्धानि त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि चतुर्दशोत्तराणि ३१८३१४, शेषमुद्धरति पञ्चकः' पञ्चकस्त्रिकञ्चतुष्कः शून्यं चतुष्कः For Parts Only ~93~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy