________________
आगम
(१६)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [३०]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [२०]
प्राभृत [१], ----- प्राभृतप्राभृत [८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
परिक्षेपतः, तथाहि - एकस्य योजनसहस्रस्य त्रीणि योजनसहस्राणि शतस्य त्रीणि शतानि पञ्चत्रिंशतः पश्चोत्तरं शतमिति, एतानि त्रीण्यपि मतानि मिथ्यारूपाणि परिरयपरिमाणमात्रेऽपि व्यभिचारात् अतो भगवान् तेभ्यः पृथक् स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता सहावी'त्यादि, 'ता' इति पूर्ववत् सर्वाण्यपि मण्डलपदानि - सूर्यमण्डलानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य आयाम विष्कम्भपरि| क्षेपेण-आयाम विष्कम्भपरिक्षेपैः पुनरनियतानि आख्यातानि, कस्यापि मण्डलस्य कियान आयामो विष्कम्भः परिक्षेप| श्वेति भाव इति स्वशिष्येभ्यो वदेत्, एवमुक्ते भगवान् गौतमः पृच्छति- 'तत्थ णं को हेऊ इति वज्जा' तत्र-मण्डलपदानामायामविष्कम्भपरिक्षेपानियतत्वे को हेतुः- का उपपत्तिरिति वदेत् ?, अत्र भगवानाह - 'ता अयन मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण स्वयं परिभावनीयं व्याख्यानीयं च 'ता जया णमित्यादि, तत्र यदा णमिति वाक्यालङ्कारे सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्गम्य चारं चरति तदा सम्मण्डलपदं, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वाद्, बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य ज्ञातव्यं, आयामविष्कम्भाभ्यां नवनवतियोंजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि ९९६४०, तथाहि - एकतोऽपि सर्वाभ्यन्तरमण्डलमशीत्यधिकं योजनशतं जम्बूद्वीपमवगाह्य स्थितमपरतोऽपि, ततोऽशीत्यधिकं योजनशतं द्वाभ्यां गुण्यते, जातानि त्रीणि शतानि षष्यधिकानि ३६०, एतानि जम्बूद्वीपविष्कम्भपरिमाणालक्षरूपात् शोध्यन्ते, ततो यथोक्तमायामविष्कम्भपरिमाणं भवति, त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकोनवत्यधिकानि ३१५०८९ परिक्षेपतः, तथाहि - तस्य सर्वाभ्यन्तरस्य मण्डलस्य विष्कम्भो नवनवतिय जनस
Education International
For Pernal Use Only
~ 89~