________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [६], ------------ ----- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
राते
सूर्यपज्ञ
पाभूत
प्रत
ठिवृत्तिः (मल०) ॥३५॥
स सूर्यः सर्ववाह्यान्मण्डलादुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयषण्मासस्य प्रथमेऽहोराने चाहिराणतरंति सर्वबाह्यस्य प्राभूते ४ मण्डलस्याभ्यन्तरं द्वितीयमनन्तरमण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया णमित्यादि, ता इति-तत्र यदा सूर्यो बाह्यानन्तरं-सर्वबाह्यमण्डलानन्तरमभ्यन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वबाह्यमण्डल
प्राभूत गतेन प्रथमपण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य विकम्प्य, एतच्चानन्तरमेव भावित, चारं चरति-चार प्रतिपद्यते, 'तया ण'मित्यादि, राबिन्दिवपरिमाणं सुगम, 'से पविसमाणे इत्यादि, स सूर्यः सर्वबाह्यानन्तराभ्यन्तरद्वितीयमण्डलादपिप्रथमक्षणादूर्व शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयस्य पण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरतचंति सर्ववाश्यस्य मण्डलस्याभ्यन्तरं तृतीयमण्डलमुपसङ्कम्य चारं चरति, 'ता जया ण'मित्यादि, तत्र यदा
सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं तृतीयमण्डलमुपसङ्क्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्वबाह्यमण्डलगतहे सर्वबाह्यानन्तरद्वितीयमण्डलगताभ्यां पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य विकम्प्य तथा एकेनाप्यहो
रात्रेण प्रथमषण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतं चैकपष्टिभागान् योजनस्य विकम्पयति, द्वितीयेनाप्यहो
रात्रेण द्वितीयषण्मासप्रथमेन, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति, 'तया 'मित्यादि, रात्रिन्दिवपरिमाणं & सुगर्म, 'एवं खलु एएण उषाएणं पविसमाणे इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयम् ॥
M३५॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभूतस्य पाठ प्राभूतपाभूत समाप्तम् ॥
25
[૨૮]
000000000
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- ६ परिसमाप्तं
~80