________________
आगम
(१६)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम [२८]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
----- प्राभृतप्राभृत [६],
मूलं [१८]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
चरति अत्रोपसंहारवाक्यं 'एगे एवमाहंस' । तदेवं मिथ्यारूपाः परप्रतिपत्तीरुपदर्थं सम्प्रति स्वमतं भगवानुपदर्शयति'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सरं वदामः, यदुत द्वे द्वे योजने अष्टाचत्वारिंशकषष्टिभागान योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति, चारं चरन् आख्यात इति वदेत्, साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तं प्रश्नसूत्रमुपन्यस्यति -- 'तत्थ को हेतू इति वएज्जा' तत्र एवंविधवस्तुतत्वावगतौ को हेतुः १, का उपपत्तिरिति वदेत् भगवान्, एवमुक्ते भगवानाह - 'ता अयण्ण' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, 'ता जया णमित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्त उत्कर्षकः- उत्कृष्टोऽष्टादशमुहूर्त्ती दिवसो भवति, जघन्या च द्वादशमुहूर्त्ता रात्रिः, 'से निक्खममाणे' इत्यादि, ततः सर्वाभ्यन्तराम्मण्डलान्निष्क्रामन् स सूर्ये नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अमितराणंतरं'ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं - बहिर्भूतं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया णमित्यादि, तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति, चारं चरितुमारभते, 'तदा ण'मिति प्राग्वत्, द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन पाश्चात्येनाहोरात्रेण विकम्प्य चारं चरति, इयमत्र भावना - सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूर्ध्वं शनैः शनैस्तदनन्तरं द्वितीयमण्डलाभिमुखं तथा कथंचन मण्डलगत्या परिभ्रमति यथा तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेकपष्टिभागान् योजनस्यापरे च द्वे योजने अतिक्रान्तो भवति,
Ja Education International
For Parts Only
~77 ~