________________
आगम
(१६)
सूत्रांक
[१०० ]
+
गाथा:
अनुक्रम [१२९
-१९२]
प्राभृत [१९],
प्राभृतप्राभृत [-],
मूलं [१००] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ सिवृत्तिः ( मल० )
॥२७४॥
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्ति:)
Jan Eucation intern
सय मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपि सुगमं, 'अट्ठासीई चत्ता' इति अष्टाशीतिः शतसहस्राणि चत्वारिंशानि चत्वारिंशत्सहस्राधिकानि शेषं गतार्थ, सम्प्रति सकलमनुष्य लोकगततारागणस्यैवोपसंहारमाह- 'एसो इत्यादि, एप:- अनन्तरगाथोक्तसङ्घा कस्तारापिण्डः सर्वसया मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः सर्वज्ञैस्तीर्थकृद्भिर्भणिता असङ्ख्याताः द्वीपसमुद्राणामसङ्ख्यातत्वात् प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं सङ्ख्येयानामसङ्ख्यानां च ताराणां सद्भावात् 'एवयमित्यादि एतावत्सङ्ख्याकं तारापरिमाणं यदनन्तरं भणितं मानुषे लोके तत् ज्योतिष्कं - ज्योतिष्कदेवविमानरूपं 'कदम्बपुष्पसंस्थितं कदम्बपुष्पयत् अधः सङ्कु चितं उपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्थसंस्थान संस्थितमित्यर्थः चारं चरति चारं प्रतिपद्यते, तथाजगत्स्वाभाव्यात् ताराग्रहणं चोपलक्षणं तेन सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याच्चारं प्रतिपद्यन्ते इति द्रष्टव्यं ।। सम्प्रत्येतद्गतमेवोपसंहारमाह- 'रवी' त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणि च एतावन्ति एतावत्सयानि आख्यातानि सर्वज्ञैर्मनुष्यलोके येषां किमित्याह--येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं 'नामगोत्राणि' इहान्यर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः- नामगोत्राणि - अम्बर्थयुक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि प्राकृता - अनतिशयिनः पुरुषा न कदाचनापि प्रज्ञापविध्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयमिति । 'छावट्ठी पिडगाई इत्यादि, इह द्वौ चन्द्रौ द्वौ सूर्यौ चैकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां
For Parts Only
~558~
१९ प्राभूते ५ चन्द्रसूर्यादिपरिमाणं सू १००
॥२७४॥