SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [४] दीप अनुक्रम [११२] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) मूलं [८४] प्राभृत [१५], ---- ---- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Education international पञ्चत्रिंशदधिकानि ततो भवति परस्परं पञ्चभागकृतो विशेषः, 'ता जया णमित्यादि, ता इति पूर्ववत्, यदा णमिति वाक्यालङ्कारे चन्द्रं गतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति तदा पौरस्त्याद् भागात् प्रथमतोऽभिनिन्नक्षत्रं चन्द्रमसं समासादयति एतच्च प्रागेव भावितं समासाद्य च नव मुहूर्त्तान् दशमस्य च मुहूर्त्तस्य सप्तविशतिं सप्तषष्टिभा गान् चन्द्रेण सार्द्ध योगं युनक्ति-करोति, एतदपि प्रागेव भावितं, एवंप्रमाणं कालं योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवण नक्षत्रस्य योगं समर्पयतीति भावः, योगं च परावर्य स्वेन सह योगं विजहाति, किं बहुना ?, विगत योगी चापि भवति, 'ता जया णमित्यादि, ता इति प्राग्वत्, यदा चन्द्र गतिसमापनमपेक्ष्य श्रवणनक्षत्रं गतिसमापन्नं भवति तदा तत् श्रवणनक्षत्रं प्रथमतः पौरस्त्याद् भागात् पूर्वेण भागेन चन्द्रमसं समासादयति, समासाद्य चन्द्रेण सार्द्ध त्रिंशतं मुहर्त्तान् यावत् योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्या पर्यन्तसमये योगमनुपरिवर्तयति, घनिष्ठा नक्षत्रस्य योगं समर्पयितुमारभते इत्यर्थः, योगमनुपरिवर्त्य च स्वेन सह योगं विप्रजहाति किं बहुना १, विगतयोगी चापि भवति, 'एवमित्यादि एवमुकेन प्रकारेण | एतेनानन्तरोपदर्शितेनाभिलापेन यानि पञ्चदश मुहूर्त्तानि शतभिषग्रप्रभृतीनि नक्षत्राणि यानि त्रिंशन्मुहूर्त्तानि धनिष्ठाप्रभृतीनि यानि च पञ्चचत्वारिंशन्मुहूर्त्तानि उत्तरभद्रपदादीनि तानि सर्वाण्यपि क्रमेण तावद् भणितव्यानि यावदुत्तरापाढा, तत्राभिलापः सुगमत्यात् स्वयं भावनीयो ग्रन्थगौरवभयात् नाख्यायते इति । सम्प्रति ग्रहमधिकृत्य योग चिन्तां करोति- 'ता जया णमित्यादि ता इति पूर्ववत् यदा णमिति वाक्यालङ्कारे चन्द्रं गतिसमापन्नमपेक्ष्य ग्रहो गति For Par Lise Only ~ 507~ waryru
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy