SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१] दीप अनुक्रम [१०९ ] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) ---- प्राभृतप्राभृत [-], मूलं [८१] प्राभृत [१३], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ( मल०) ॥२४३॥ * सूर्यप्रज्ञ- २) तत्र त्रयोदशापि चतुःपञ्चाशत्कानि द्वितीयेऽयने, तत्रापि सप्त चतुःपञ्चाशत्कानि पूर्वभागे पट् पाश्चात्ये भागे, ये च द्वे त्रयोठिवृत्तिः दशके ते द्वितीयस्यायनस्योपरि चन्द्रमासाव धेरर्वाक् द्रष्टव्ये, तबैकं त्रयोदशकं सर्वबाह्यादवा ने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयं पौरस्त्ये तृतीयेऽर्द्धमण्डले, तथा 'तेरसे' त्यादि, त्रयोदश त्रयोदशकानि यानि चन्द्र आत्मनैव चीर्णानि ॐ प्रतिचरति, एतानि च सर्वाण्यपि द्वितीयेऽयने वेदितव्यानि तत्रापि सप्त पूर्वभागे पट् पश्चिमभागे, तथा 'दुवे इत्यादि, द्वे एकचत्वारिंशत्के द्वे च त्रयोदशके अष्टौ सप्तषष्टिभागा एकं च सप्तपष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य सत्का अष्टादश भागा यान्येतानि चन्द्र आत्मना परेण च चीर्णानि प्रतिचरति, तत्र एकमेकचत्वारिंशत्कमेकं च त्रयोदशकं द्वितीयायनोपरि सर्वबाह्यात् मण्डलादवतने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयमेकचत्वारिंशत्कं द्वितीयं च त्रयोदशकं सर्वग्राह्यात् मण्डलादने तृतीये पौरस्त्ये शेषं पाश्चात्ये सर्वत्राह्यादतने चतुर्थेऽर्द्धमण्डले, अधुनोपसंहारमाह-'इश्चेसा' इत्यादि, इत्येषा चन्द्रमसः संस्थितिरिति योगः, किंविशिष्टेत्याह-'अभिगमननिष्क्रमण वृद्धिनिर्वृद्धानवस्थितसंस्थाना' अभिगमनं - सर्वग्राह्याम्मण्डलाभ्यन्तरं प्रवेशनं, निष्क्रमणं - सर्वाभ्यन्तरात् मण्डलाद्वहिर्गमनं वृद्धिः चन्द्रमसः प्रकटताया उपचयो | निर्वृद्धि: - यथोक्तस्वरूपवृद्धाभावः, एताभिरनवस्थितं संस्थानं, अभिगमन निष्क्रमणे अधिकृत्यानवस्थानं वृद्धिनिर्वृद्धी अपेक्ष्य संस्थानं-आकारो यस्याः सा तथारूपा संस्थितिः, तथा परिदृश्यमान चन्द्रविमानस्याधिष्ठाता विकुर्वद्धिप्राप्तो रूपी-रूपवान् अत्रातिशयने मत्वर्थीयोऽतिशय रूपवान् चन्द्रो देव आख्यातो नतु परिदृश्यमानविमानमात्रश्चन्द्रो देव इति वदेत् स्वशिष्येभ्यः ॥ ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां त्रयोदशं प्राभृतं समाप्तं ॥ | Education Internatio For Par Use Only ~ 496~ १३ प्राभूते चन्द्रायनम ण्डलचारः सू ८१ ॥२४३॥
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy