SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१] दीप अनुक्रम [१०९ ] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) मूलं [८१] प्राभृत [१३], ---- ---- प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Education in प्रविश्य चारं चरति, 'कयराई खलु दुबे इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह इमाई खलु एते खलु द्वे अष्टके ये केनाप्यना-चीर्णपूर्वे चन्द्रः स्वयमेव प्रविश्य चारं चरति, तद्यथा सर्वाभ्यन्तरान्मण्डला हिर्निष्काम नेवामावास्यान्ते एकमष्टकं केनाप्यनाचीर्ण चन्द्रः प्रविश्य चारं चरति, सर्ववाद्यात् मण्डलादभ्यन्तरं प्रविशन्नेव पौर्णमास्यन्ते द्वितीयमष्टकं केनाप्यनाचीर्ण चन्द्रः प्रविश्य चारं चरति, 'एयाई खलु दुबे अट्टगाई' इत्यादि उपसंहारवाक्यं सुगमं, इह परमार्थतो द्वौ चन्द्री एकेन चान्द्रेणार्द्धमासेन चतुर्द्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधिकशतभागान् भ्रमणेन पूरयतः | परं लोकरूढ्या व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रश्चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुविंशत्यधिकशतभागान् चरतीत्युकं । अधुना एकश्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कत्युतरभागे भ्रम्या पूरयतीति प्रतिपिपादयिषुर्भगवानाह - ता पढमायणगए चंदे इत्यादि, ता इति पूर्ववत्, प्रथमायनगते प्रथममयनं प्रविष्टे चन्द्रे दक्षिणस्माद्भागादभ्यन्तरं प्रविशति सप्त अर्द्ध मण्डलानि भवन्ति यानि चन्द्रो दक्षिणस्माद् | भागादभ्यन्तरं प्रविशन्नाकम्य चारं चरति, 'कपराई खलु' इत्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - 'इमाई खलु' इत्यादि, इमानि खलु सप्तार्द्ध मण्डलानि यानि चन्द्रो दक्षिणस्माद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति, तद्यथा-द्वितीयमर्द्धमण्डदमित्यादि, सुगर्म, नवरमियमत्र भावना - सर्वबाह्ये पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्य परिपूर्ण पाश्चात्ययुगपरिसमाप्तिर्भवति, ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे एकञ्चन्द्रमा दक्षिणभागादभ्यन्तरं प्रविशन् द्वितीयमण्डलमाक्रम्य चारं चरति, स च पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरति चारं चरितवान् स वेदितव्यः, ततः स For Pale Only ~ 487~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy