________________
आगम
(१६)
प्रत
सूत्रांक
[ ७६ ]
दीप
अनुक्रम [१०४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [७६]
प्राभृत [१२], ---- ----- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
स रूपोनः कार्य इति जाता अष्टौ तैः प्रागुक्तो ध्रुवराशिः ५७३।३।। गुण्यते, जातानि पञ्चचत्वारिंशच्छतानि चतु रशीत्यधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्वे शते अष्टाशीत्यधिके एकस्य च द्वाषष्टिभागस्याष्टाचत्वारिंशत् सप्तषष्टिभागाः ४५८४ । २८८ । ४८ । तत एतेभ्यश्चत्वारिंशता मुहूर्तातैः पञ्चनवत्यधिकैर्मुहूर्त्तगतानां च द्वाषष्टिभागानां विंशत्यधिकेन शतेन एकस्य च द्वाषष्टिभागस्य सत्कानां सप्तषष्टिभागानां त्रिंशदधिकैस्त्रिभिः शतैः पञ्च नक्षत्रपर्यायाः शुद्धाः स्थितानि पश्चान्मुहूर्त्तानां चत्वारि शतानि एकोननवत्यधिकानि मुहूर्त्तगतानां च द्वाषष्टिभागानां शतं त्रिषष्ट्यधिकं एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः ४८९ । १६३ । ५३ । तत एतेभ्यो भूयस्त्रिभिः शतैनवत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य पटूपट्या सप्तपष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिता पश्चान्मुहूर्त्तानां नवतिः मुहूर्त्तगतानां द्वापष्टिभागानामष्टात्रिंशद|धिकं शतं एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशत्सप्तपष्टिभागाः ९० । १३८ । ५४ । तत्र चतुर्विंशत्यधिकेन द्वापष्टिभागशतेन द्वौ मुहसों लब्धी पश्चात् स्थिता द्वापष्टिभागाः चतुर्दश, लब्धौ च मुहत्तीं मुहर्त्तराशी प्रक्षिप्येते, जाता मुहूसानां द्विनवतिः ९२ । १४ । ५४ । तत्र पञ्चसप्तत्या मुहूर्तेः पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्त्ताः १७ । १४ । ५४ । न चैतावता पूर्वफाल्गुनी शुद्ध्यति, तत आगतं पूर्वफाल्गुनी नक्षत्रस्य द्वादशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी | श्रावणमास भाविन्यावृत्तिः प्रवर्त्तते, सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद् भावनीयं तदेवं चन्द्रनक्षत्रयोग
For Pale Only
~465~