SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ७६ ] दीप अनुक्रम [१०४] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) मूलं [७६] प्राभृत [१२], ---- ---- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Education International करणं तदुपदर्श्यते "आउट्टीहिं एगूणियाहिं गुणियं सयं तु तेसीयं । जेण गुणं तं तिगुणं रूहियं पक्खिये तत्थ ॥ १ ॥ पण्णरस भाइयंमि उ जं लद्धं तं तइसु होइ पवेसु । जे अंसा ते दिवसा आउट्टी तत्थ बोद्धया ॥ २ ॥" अनयोर्व्याख्या- आवृत्तिभिरेकोनकाभिर्गुणितं शतं व्यशीत्यधिकं किमुकं भवति १-या आवृत्तिर्विशिष्टतिथियुक्ता ज्ञातुमिष्यते तत्सङ्ख्या एकोना क्रियते, ततस्तया व्यशीत्यधिकं शतं गुण्यते, गुणयित्वा च येनाङ्केन गुणितं व्यशीत्यधिकं शतं तदङ्कस्थानं त्रिगुणं कृत्वा रूपाधिकं सत् तत्र पूर्वराशौ प्रक्षिप्यन्ते ततः पञ्चदशभिर्भागो हियते, हृते च भागे यल्लब्धं ततिषु तावत्सङ्ख्याकेषु पर्वस्वतिक्रान्तेषु सा विवक्षिता आवृत्तिर्भवति, ये वंशाः पश्चादुद्धरितास्ते दिवसा ज्ञातव्याः, तत्र तेषु दिवसेषु मध्ये चरमदिवसे आवृत्तिर्भवतीति भावः इहावृत्तीनामेवं क्रमो युगे प्रथमा आवृत्तिः श्रावणे मासे द्वितीया माघमासे तृतीया भूयः श्रावणे मासे चतुर्थी माघमासे पुनरपि पञ्चमी श्रावणे षष्ठी माघमासे भूयः सप्तमी श्रावणे | अष्टमी माघे नवमी श्रावणे दशमी माघमासे इति, तत्र प्रथमा किल आवृत्तिः कस्यां तिथौ भवतीति यदि जिज्ञासा तदा प्रथमावृत्तिस्थाने एकको धियते स रूपोनः क्रियते इति न किमपि पश्चाद्रूपं प्राप्यते, ततः पाश्चात्ययुगभाविनी या दशमी आवृत्तिस्तत्सङ्ख्या दशकरूपा प्रियते तथा त्र्यशीत्यधिकं शतं गुण्यते जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, दशकेन किल गुणितं व्यशीत्यधिकं शतमिति ते दश त्रिगुणाः क्रियन्ते जाता त्रिंशत् सा रुपाधिका विधेया जाता एकत्रिंशत् सा पूर्वराशी प्रक्षिप्यते जातान्यष्टादश शतान्येकषष्ट्यधिकानि १८६१ तेषां पञ्चदशभिर्भागो हियते लब्धं चतुर्विंशत्यधिकं शतं शेषं तिष्ठति एकं रूपं, आगतं चतुर्विंशत्यधिकपर्वशतात्मके पाश्चात्ये युगेऽतिक्रान्ते अभिनवे युगे प्रवर्त्तमाने प्रथमा For Para Use Only ~451~ wor
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy