SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [७२] दीप अनुक्रम [९] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) ---- प्राभृतप्राभृत [-], मूलं [७२] प्राभृत [१२], ---- पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः Education inten नीयं । 'ता एएसि णमित्यादि, पञ्चमाभिवर्द्धितसंवत्सरविषयं प्रश्नसूत्रे सुगमं, भगवानाह - 'ता एकतीस 'मित्यादि, ता इति पूर्ववत्, एकत्रिंशत् रात्रिन्दिवानि एकोनत्रिंशश्च मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तदश द्वाषष्टिभागा रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि - त्रयोदशभिश्चन्द्रमासैरभिवर्द्धितसंवत्सरः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः २९ । एतत्रयोदशभिर्गुण्यते, ततो यथासम्भवं द्वाषष्टिभागे रात्रिन्दिवेषु जातेषु जातमिदं त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य ३८३ । एतदभिवर्द्धित संवत्सरपरिमाणं, तत एतस्य द्वादशभिर्भागो हियते, तत्र त्रयाणामहोरात्रशतानां त्र्यशीत्य|धिकानां द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेपास्तिष्ठन्ति एकादश, ते च मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि त्रीणि शतानि ३३०, येऽपि च चतुश्चत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०, तेषां द्वापट्या भागो हियते, लब्धा एकविंशतिमुहूर्त्ताः, शेपास्तिष्ठन्त्यष्टादश, तत्रैकविंशतिर्मुहूर्त्ता मुहूर्त्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्त्तानां त्रीणि शतान्येकपञ्चाशदधिकानि १५१, तेषां द्वादशभिर्भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्त्ताः शेषा स्तिष्ठन्ति त्रयः, ते द्वाषष्टिभागकरणार्थे द्वाषष्ट्या गुण्यन्ते, जातं पडशीत्यधिकं शतं १८६, ततः प्रागुक्ताः शेषीभूता मुहूर्त्तस्याष्टादश द्वाषष्टिभागाः प्रक्षिप्यन्ते, जाते द्वे शते चतुरुतरे २०४, तयोर्द्वादशभिर्भागो हियते लब्धा मुहूर्त्तस्य सप्तदश द्वाषष्टिभागाः, 'ता से पणमित्यादि, ता इति पूर्ववत् सोऽभिवर्द्धितमासः कियान् मुहूर्त्ताप्रेणाख्यात इति वदेत् ?, भगवानाह - 'नवे' त्यादि, नव मुहूर्त्तश For Parts Only ~419~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy