________________
आगम
(१६)
प्रत
सूत्रांक
[७२]
दीप
अनुक्रम
[९]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [७२]
प्राभृत [१२], ---- ---- प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
-सूर्यमज्ञतिवृत्तिः ( मल०
॥२०४॥
भागानां ५४९००, तत एतेषां द्वापट्या भागो हियते, उब्धानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्त्तानामेकस्य च ४२ १२ प्राभृते मुहूर्त्तस्य त्रिंशद् द्वाषष्टिभागाः ८८५ । 'ता एस णं अद्धा इत्यादि, प्राग्वद् भावनीयं, 'ता एएसि णमित्यादि, तृतीयऋतुसंवत्सरविषयं प्रश्नसूत्रं सुगमं, भगवान् प्रतिवचनमाह-'ता तीसे णमित्यादि ता इति पूर्ववत् त्रिंशता रात्रिन्दिवाप्रेण ऋतुमास आख्यात इति वदेत्, तथाहि-- ऋतुमासाः युगे एकषष्टिः, ततो युगसत्कानामष्टादशशतसक्यानां त्रिंशदधिकानामहोरात्राणामेकपष्ट्या भागो हियते, लब्धात्रिंशदहोरात्राः ३०, 'ता से ण'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता नव मुहत्तसया' इत्यादि, नव मुहूर्त्तशतानि मुहर्सायेणाख्यात इति वदेत्, तथाहित्रिंशद्रात्रिन्दिवानि ऋतुमासपरिमाणमेकैकस्मिंश्च रात्रिन्दिये त्रिंशन्मुहूर्त्तास्ततस्त्रिंशतस्त्रिंशता गुणने नव शतानि भवन्तीति, 'ता एएसि ण' मित्यादि, प्राग्वद् भावनीयं, 'ता एएसि णमित्यादि चतुर्थ सूर्य संवत्सरविषयं प्रश्नसूत्रं तच सुगमं, भगवानाह - 'ता तीस 'मित्यादि, ता इति पूर्ववत्, त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्दिवस्य एकमपार्श्वभागं, एकमर्द्धमित्यर्थः, एतावत्प्रमाणः सूर्यमासो रात्रिन्दिवात्रेण आख्यात इति वदेत्, तथाहि - सूर्यमासा युगे षष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिकाष्टादशशत सङ्ख्यानां पट्या भागो हियते, लब्धाः सार्द्धास्त्रिंशदहोरात्रा', 'ता से ण'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमम्, भगवानाह - 'नवपण्णरे' इत्यादि नव मुहर्त्तशतानि पञ्चदशाधिकानि मुहूर्त्त - परिमाणेनाख्यात इति वदेत्, तथाहि —सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्यार्द्धं तच्च त्रिंशता गुण्यन्ते, जातानि नव शतानि, रात्रिन्दिवार्जे च पञ्चदश मुहर्त्ता इति, 'ता एएसि ण' मित्यादि, प्राग्वद् भाव
For Pasta Use Only
~418~
२२प्राभूतप्राभूते नक्षत्रादिवपरात्रिन्दि७ मुहूर्त्तमानं
सू ७२
॥२०४॥