________________
आगम
(१६)
प्रत
सूत्रांक [ ६९ ]
दीप
अनुक्रम [९६]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
मूलं [ ६९ ]
प्राभृत [१०], • प्राभृतप्राभृत [२२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
तेभ्योऽपराणि द्वितीयानि ततो भूयस्तृतीयेन नक्षत्रमासेन तान्येव प्रथमान्यष्टाविंशतिं नक्षत्राणि चतुर्थेन भूयस्तान्येव द्वितीयानि एवं सकलकालं, युगे च नक्षत्रमासाः सप्तषष्टिः, सा च सप्तषष्टिसङ्ख्या विषमेति विवक्षितयुगपरिसमाष्टावन्यस्य युगस्य प्रारम्भे यानि विवक्षितयुगस्यादौ भुक्तानि नक्षत्राणि तेभ्योऽपराण्येव द्वितीयानि भोगमायान्ति, न तु तान्षेव, युगद्वये च चतुस्त्रिंशन्नक्षत्रमासशतं भवति सा च चतुस्त्रिंशन्नक्षत्रमासशतसङ्ख्या समेति द्वितीययुगपरिसमाप्तौ पटूपञ्चाशदपि नक्षत्राणि समाप्तिमुपयान्ति ततो विवक्षितयुगादारभ्य तृतीये युगे तेनैव नक्षत्रेण तस्मिन्नेव देशे तदा चन्द्रमसो योगः, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि एकैकस्मिंश्चाहोरात्रे मुहूर्त्तास्त्रिंशत्ततोऽष्टादशानां शतानां त्रिंशदधिकानां त्रिंशता गुणने भवति यथोक्ता मुहूर्त्तसङ्ख्या, यथोक्तमुहूर्त्तसङ्ख्यातिक्रमे च तादृशेनैव नक्षत्रेण सह योगः चन्द्रमसस्तस्मिन्नेव देशे न तु तेन नक्षत्रेणान्यस्मिन् वा देशे इति, 'ता जेण'मित्यादि, इदं सूत्रमक्षरार्थमधिकृत्य सुगमं, भावना तु प्रागेव कृता, नवरं युगद्वयकालः पत्रिंशच्छतानि षष्ट्यधिकानि अहोरात्राणामेकैकस्मिंश्चाहोरात्रे त्रिंशन्मुहूर्त्ता | इति षटूत्रिंशच्छतानां षष्ट्यधिकानां त्रिंशता गुणने यथोक्ता मुहूर्त्तसङ्ख्या भवति । तदेवं तादृशेन तेन वा नक्षत्रेण सहान्यस्मिन् तस्मिन् [ अन्यस्मिन् ] वा देशे चन्द्रमसो योगकालप्रमाणमुक्तम्, सम्प्रति सूर्यविषये तदाह-'ता जेण मित्यादि, ता इति पूर्ववत् अद्य-विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति स इमानि त्रीणि षट्षष्ट्यधिकानि | रात्रिन्दिवशतानि उपादाय - अतिक्रम्य पुनरपि स सूर्यस्तस्मिन्नेव देशे तादृशेनैवान्येन नक्षत्रेण योगं युनक्ति न तु तेनैव, कुत इति चेत्, उच्यते, इह चन्द्रो नक्षत्रमासेनैकेनाष्टाविंशतिं नक्षत्राणि भुङ्क्ते, सूर्यस्तु त्रिभिरहोरात्रशतैः षट्षष्ट्यधिकैः,
Education Intonation
For Parts Only
~ 401 ~