SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ६९ ] दीप अनुक्रम [९६] “सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः) • प्राभृतप्राभृत [२२], मूलं [ ६९ ] प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः गतित्वात् ततो नवानां मुहर्त्तानामेकस्य च मुहर्त्तस्य चतुर्विंशतेद्वेषिष्टिभागानामेकस्य च द्वाषष्टिभागस्य षट्पदेः ससफ ष्टिभागानामतिक्रमे पुरतः श्रवणेन सह योगमायाति, ततस्ततोऽपि शनैः शनैः पश्चादवष्वष्कमानस्त्रिंशता मुहूः अदजिन सह योगं समाप्य पुरतो घनिष्ठया सह योगमुपगच्छति, एवं स्वं स्वं कालमाचक्ष्य सर्वैरपि नक्षत्रैः सह योगस्ताचव् वक्तव्यो यावदुत्तराषाढा नक्षत्रयोगपर्यन्तः, एतावता च कालेनाष्टी मुहूर्त्तशतानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पट्षष्टिः सप्तषष्टिभागा अभवन् तथाहि--पडू नक्षत्राणि पञ्चचत्वारिंशम्मुहूर्त्तानीति षट् पञ्चचत्वारिंशता गुण्यंते, जाते द्वे शते सप्तत्यधिके २७०, षट् च नक्षत्राणि पश्चदशमुहूर्त्तानीति भूयः षण्णां पक्षदशभिर्गुणने जाता नवतिः ९०, पञ्चदश त्रिंशन्मुहूर्त्तानीति पश्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारि शतानि पशदधिकानि ४५०, अभिजितो नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षषष्टिः सप्तषष्टिभागा इति भवति सर्वेषामेकत्र मीठने यथोक्ता मुहूर्त्तसङ्ख्या, एष एतावान् नक्षत्रमासः, ततस्तदनन्तरं यदभिजिनक्षत्रं अतिक्रान्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नव मुहूर्त्तादिकालं योगमुपागच्छति, ततः परमपरेण द्वितीयाष्टाविंशतिसम्बन्धिना श्रवणेन सह योगमनुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्तराषाढा, तदनन्तरं भूयः प्रथमेनैवाभिजिता नक्षत्रेण सह योगं याति, ततः प्रागुक्तक्रमेण श्रवणादिभिः एवं सकलकालमपि ततो विवक्षिते दिने यस्मिन् देशे येन नक्षत्रेण सह योगमममञ्चन्द्रमाः स यथोक्तमुहूर्त्तमयातिक्रमे भूयः तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशे योगमादत्ते न तेनैव नापि तस्मिन् देशे इति, तथा 'ता जेण'मित्यादि, अद्य-विवक्षिते दिने येन नक्षत्रेण सह Educatan Internation For Parts Only ~399~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy