SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [११] लगतस्त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां गम्यते, तथाहि-तानि मण्डलगतानि त्रिंशदधि-18 कान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण गम्यते, अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः, ततः सूर्यद्वयापेक्षया पष्टिर्मुहर्ता लभ्यन्ते ततखैराशिककर्मावकाशः, यदि पट्या मुहूर्तेरष्टादश शतानि त्रिंशदधिकानि मण्डलस्य भागानां गम्यते तत एकेन मुहूर्तेन किं गम्यते !, राशित्रयस्थापना-। ६० । १८३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनाजातानि तान्येवाष्टादश शतानि त्रिंशदधिकानि तेषामायेनराशिना पष्टिलक्षणेन भागो हियते लब्धाः सार्दास्त्रिंशद्भागाः, एतावन्मुहूर्त्तन गम्यते, मुहूर्तश्चैकपष्टिभागीक्रियते तत आगतमेको भागो द्वाभ्यां मुहूतेकपष्टिभागाभ्यां गम्यते, यदिवा यदि ज्यशीत्यधिकेनाहोरात्रशतेन षट् मुहूर्ता हानी वृद्धौ वा प्राप्यन्ते तत एकेनाहोरानेण किं प्राप्यते ?, राशित्रयस्थापना-1 १८३ । ६।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशि ण्यते, जातास्त एव षद, तेषां ज्यशीत्यधिकेन शतेन भागहरणं, अनोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते ततश्छेद्यच्छेदकराश्योखिकेनापवर्त्तना, जात उपरितनो राशिद्धिकरूपोऽधस्तन एकपष्टिरूपः, आगतं द्वावेकषष्टिभागौ मुहूर्तस्य एकस्मिन्नहोरात्रे वृद्धी हानी वा प्राप्यते इति, तथा 'ता'इति तस्माद् द्वितीयान्मण्डलानिष्क्रामन् सूर्यों द्वितीये अहोराने सर्वाभ्यन्तरं मण्डलमपेक्ष्य तृतीयं मण्डलमुपसङ्कम्य चारं चरति, 'ता जया ण' मित्यादि, तत्र यदा तस्मिन्सर्वाभ्यन्तरं मण्डलमवेक्ष्य तृतीये मण्डले उपसङ्कम्य चारं चरति तदा चतुर्भिर्मुहूर्त्तस्यैकपष्टिभागेहींनोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, चतुर्भिमुहूर्तस्यैकषष्टिभागैरधिका द्वादशमुहूर्तप्रमाणा रात्रिः, एवमुक्तनीत्या 'खलु'निश्चितमेतेनानम्तरोदितेनोपायेन प्रतिमण्डलं अनुक्रम [२१] SHARE ~37~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy