________________
आगम
(१६)
प्रत सूत्रांक
[६१-६२]
दीप
अनुक्रम [८८-८९]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
• प्राभृतप्राभृत [२२],
मूलं [६१-६२]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः ( मल० )
॥१७८॥
खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकस्मिंश्च भागे त्रिंशङ्गागपरिकल्पनादेकविंशतिस्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं पश्चोत्तरं सहस्रं सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः तानि द्वादश, तद्यथा-द्वे शतभिषजी 'जाब दो जेट्ठाउ'ति यावच्छब्दकरणादेवं द्रष्टव्यं-दो भरणीओ दो अदाओ दो अस्सेसाओ दो साईओ दो जेठाओ' इति, तथाहि एतेषां द्वादशानामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः सार्द्धाखयस्त्रिंशद्भागाश्चन्द्र योगे योग्यास्ततस्त्रयस्त्रिंशत् त्रिंशता गुण्यते जातानि नव शताति नवत्यधिकानि ९९०, अर्द्धस्थापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हृते लब्धाः पञ्चदश १५, सर्वसाया जातं पश्चोत्तरं सहस्रं १००५, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां द्वे सहने दशोत्तरे सप्तषष्टिभागन्त्रिंशद्भागानां सीमाविष्कम्भस्तानि त्रिंशत्, तद्यथा- द्वौ श्रवणी 'जाथ दो पुच्छासाडा' इति यावच्छन्दादेवं पाठो द्रष्टव्य:-'दो घणिट्ठा दो पुषभश्वया दो रेवई दो अस्सिणी दो कत्तिया दो मिगसिरा दो पुस्सा दो मघा दो पुवफग्गुणीओ दो इत्था दो चित्ता दो अणुराहा दो मूला दो प्रवासाढा' इति, तथाहि - एतानि नक्षत्राणि समक्षेत्राणि, तत एतेषां सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः परिपूर्णाः सप्तषष्टिभागाः प्रत्येकं चन्द्रयोगयोग्याः, तेन सप्तषष्टिस्त्रिंशता गुण्यते, जाते द्वे सहसे दशोत्तरे इति, तथा तत्रतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्धागानां सीमाविष्कम्भस्तानि द्वादश, तद्यथा द्वे उत्तरे प्रोष्ठपदे 'जाब दो उत्तरासादा' इति यावच्छन्दकरणादेव
Education International
For Pasta Use Only
~366~
१० प्राभूते २२ प्राभृतप्राभूते नक्षत्रसीमाविष्कंभादि ६१-१२
॥ १७८ ॥