SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [६१-६२] दीप अनुक्रम [८८-८९] “सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः) • प्राभृतप्राभृत [२२], मूलं [६१-६२] प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Educator कानि १६६०, एकैकस्मिनहोरात्रे किल त्रिंशन्मुहर्त्ता इति प्रत्येकमेतेषु षष्ट्यधिकपत्रिंशच्छतसत्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहस्रमष्टानवतिः शतानि १०९८००, तव इत्थं मण्डलस्य भागान् परिकल्प्य भगवान् प्रतिवचनं ददाति- 'ता' इति तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्येऽस्तीति निपातत्वादार्थत्वाद्वा स्तस्ते नक्षत्रे ययोः प्रत्येकं पट् शतानि त्रिंशानि - त्रिंशदधिकानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः सीमापरिमाणं, तथाऽस्तीति सन्ति तानि नक्षत्राणि येषां प्रत्येकं पशोत्तरं सहस्रं सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः सन्ति तानि नक्षत्राणि येषां प्रत्येकं द्वे सहस्रे दशोत्तरे सप्तषष्टित्रिंशभागानां सीमाविष्कम्भः सन्ति तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, एवं भगवता सामान्येनोके भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति-'ता एएसि णमित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये कतराणि तानि नक्षत्राणि येषां पट् शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, 'तं चैव उच्चारेय'ति तदेवानन्तरोक्तमुक्तप्रकारेणोच्चारयितव्यं तद्यथा- 'कयरे नक्खता जेसिं सहस्सं पंचोत्तरं सप्तट्टिभागतीसहभागाणं सीमाविक्खंभो कयरे नक्खत्ता जेसिं दो सहस्सा दसुत्तरा सत्तट्टिभागा तीसइभागाणं सीमाविक्खंभो' इति, चरमं तु सूत्रं साक्षादाह'कयरे नक्खत्ता' इत्यादि, एतानि त्रीण्यपि सूत्राणि सुगमानि (च), भगवानाह - 'ता एएसि णमित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तषष्टिभाग त्रिंशद्भागानां सीमाविष्कम्भः ते द्वे अभिजिनक्षत्रे, कथमेतदवसीयते इति चेत्, उच्यते, इह एकैकस्याभिजितो नक्षत्रस्य सप्तषष्टि For Parts Only ~ 365~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy