________________
आगम
(१६)
प्रत
सूत्रांक
[ ५७ ]
दीप
अनुक्रम [७८]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
मूलं [ ५७ ]
प्राभृत [१०], - प्राभृतप्राभृत [२०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञशिवृत्तिः ( मल०)
॥ १७० ॥
णामष्टादश शतानि त्रिंशदधिकानि भवन्ति, कथमेतदवसीयते इति चेत्, उच्यते, इह युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभि- + वर्द्धितसंवत्सरौ, एकैकस्मिंश्च चन्द्रसंवत्सरेऽहोरात्राणां त्रीणि शतानि चतुष्पञ्चाशदधिकानि भवन्ति, द्वादश च द्वाषष्टिभागा अहोरात्रस्य ३५४ ६३ तत एतत् त्रिभिर्गुण्यते, जातान्यहोरात्राणां दश शतानि द्वापश्यधिकानि १०६२ पत्रिंशञ्च द्वाषष्टिभागा अहोरात्रस्य से अभिवर्द्धितसंवत्सरे च एकैकस्मिन् अहोरात्राणां त्रीणि शतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशश्च द्वाषष्टिभागा अहोरात्रस्य ( तत एतद् द्वाभ्यां गुण्यते जातानि सप्तषष्यधिकानि सप्त शतान्यहोरात्राणां पशितिश्च द्विषष्टिभागा अहोरात्रस्य तदेवं चन्द्र संवत्सरत्रयाभिवर्द्धितसंवत्सरद्वयाहोरात्रमीलने त्रिंशदधिकान्यहोरात्राणामष्टादश शतानि, सूर्यमासस्य च पूर्वोक्तरीत्या सार्द्धत्रिंशदहोरात्रमानतेति तेन भागे कृते स्पष्टमेव पष्टेर्लाभः, तथाहि - भष्टादशशत्या खिंशदधिकाया अर्धीकरणाय द्वाभ्यां गुणने षष्ठयधिका पत्रिंशच्छती त्रिंशतश्चार्धीकरणाय द्वाभ्यां गुणने षष्टिः एकप्रक्षेपे एकषष्टिस्तेन पूर्वोकराशेः भागे कृते लभ्यते षष्टिः, तथा च युगमध्ये सूर्यमासाः षष्टिरिति स्थितं | सावनस्य तु मासा एकषष्टिः, त्रिंशद्दिनमानत्वाद् तस्य त्रिंशदधिकाया अष्टादशशत्यास्त्रिंशता भागे एकपटेर्लाभात् । चन्द्र| मासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरे कोन त्रिंशता द्विषष्टिभागैरधिकैर्मासः, युगदिनानां तैर्भागे च द्वाषष्टेर्लाभात् कथं? त्रिंशदधिकाया अष्टादशशत्या द्विषष्टिभागकरणार्थं गुणकारे एकं लक्षं त्रयोदश सहस्राणि षष्यधिकमेकं शतं ११३१६६ चन्द्रमासस्यापि भागकरणाय द्विषष्ट्या एकोनविंशति गुणिते प्रक्षिप्ते च द्वात्रिंशति त्रिंशदधिकाया अष्टादशशत्या भाषः तया भके पूर्वोक्कराशी द्वाषष्टेर्भावात् चन्द्रमासा द्वाषष्टिरिति । नक्षत्रमासाः सप्तषष्टिः, कथमिति चेत्, नक्षत्रमासतावत्
Ja Education International
For Peralata Use Only
~ 350~
१० प्राभृते
२० प्राभृत
प्राभूते युगसंवत्सराः सू ५६ 1 पर्वकरणानि
॥ १७० ॥