SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ५७ ] दीप अनुक्रम [७८] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) मूलं [ ५७ ] प्राभृत [१०], - प्राभृतप्राभृत [२०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः न्दिवस्य एकपञ्चाशत्सष्ठपष्टिभागाः, तत्र त्रयाणां शतानां सप्तविंशत्यधिकानां द्वादशभिभागो हियते, लब्धाः सप्तविंशतिरहोरात्राः, शेपास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थं सप्तपच्या गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, येऽपि च उपरितना एकपञ्चाशत्सप्तषष्टिभागास्तेऽपि तत्र प्रक्षिप्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके २५२, तेषां द्वादशभिर्भागे हृते लब्धा एकविंशतिः सप्तषष्टिभागाः, एतावन्नक्षत्रमासपरिमाणं तथा अभिवर्द्धितसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य तत्र त्र्याणां शतानां व्यशीत्यधिकानां द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च चतुर्विंशत्युत्तरशतभाग करणार्थं चतुविंशत्युत्तरशतेन १२४ गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि १३६४, येऽपि चोपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थ द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीतिः, साऽनन्तरराशी प्रक्षिप्यते, जातानि चतुर्दश शतानि द्विपञ्चाशदधिकानि १४५२, तेषां द्वादशभिर्भागो हियते, लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां एतावदभिवर्द्धितमासपरिमाणं, तथा चोक्तम्- "आइचो खलु मासो तीस अद्धं च सावणो तीसं । चंदो एगुणतीसं विसद्विभागा य बत्तीसं ॥ १ ॥ नक्खतो खलु मासो सत्तावीसं भवे अहोरत्ता । अंसा य एकवीसा सत्तडिकएण छेएण ॥ २ ॥ अभिवडिओ य मासो एकतीसं भवे अहोरत्ता । भागसय मेगधीसं चडवीससएण छेपणं ॥ २ ॥" सम्प्रति एतैरेव पश्चभिः संवत्सरैः प्रागुक्तस्वरूपं युगं-पञ्चसंवत्सरात्मकं मासानधिकृत्य प्रमीयते, तत्र युगं प्रागुदितस्वरूपं यदि सूर्यमासैर्विभज्यते ततः षष्टिः सूर्यमासा युगं भवन्ति, तथाहि —सूर्यमासे सार्द्धास्त्रिंशदहोरात्रा युगे चाहोरात्रा Ja Eucation International For Park Use Only ~ 349~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy