________________
आगम
(१६)
प्रत
सूत्रांक
[ ५७ ]
दीप
अनुक्रम [७८]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
• प्राभृतप्राभृत [२०],
मूलं [ ५७ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
त्सरोऽभिवर्द्धितसंवत्सरश्च तत्र नक्षत्रचन्द्राभिवर्द्धितसंवत्सराणां स्वरूपं प्रागेवोक्तमिदानीं ऋतुसंवत्सरादित्यसंवत्सरयो स्वरूपमुच्यते-तत्र द्वे घटिके एको मुहर्त्तत्रिंशन्मुहूर्त्ता अहोरात्रः पञ्चदश परिपूर्णा अहोरात्राः पक्षः द्वौ पक्षी मासो द्वादश मासाः संवत्सरो, यस्मिंश्च संवत्सरे त्रीणि शतानि पश्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरा, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः, अस्य चापरमपि नामद्वयमस्ति तद्यथा कर्मसंवत्सरः सवन संवत्सरः, तत्र कर्म्म-लौकिको व्यवहारस्तत्प्रधानः संवत्सरः कर्म्मसंवत्सरः, लोको हि प्रायः सर्वोऽप्यनेनैव संवत्सरेण व्यवहरति, तथा चैतद्गतं मासमधिकृत्याम्यत्रोक्तम् — “कम्मो निरंसयाए मासो वषहारकारगो ढोए । सेसा - ओ संसयाए बवहारे दुक्करो घितुं ॥ १ ॥” तथा सवनं-कर्म्मसु प्रेरणं 'पू प्रेरणे' इति वचनात् तत्प्रधानः संवत्सरः सवनसंवत्सर इत्यप्यस्य नाम, तथा चोक्तं- “वे नालिया मुहुत्तो सही उण नालिया अहोरतो । पद्मरस अहोरता पक्लो तीसं दिणा मासो ॥ १॥ संवच्छरो उ बारस मासा पक्खा य ते चषीसं तिनेव सया सहा हवंति राइंदियाणं तु ॥२॥ एसो उ कमो भणिओ निअमा संयच्छरस्स कम्मस्स । कम्मोसि सावणोत्ति य उउइतिय तस्स नामाणि ॥ ३ ॥” तथा यावता कालेन षडपि प्रावृडादयः ऋतवः परिपूर्णाः प्रावृत्ता भवन्ति तावान् कालविशेष आदित्यसंवत्सरः, उक्तं च"छप्पि उपरियट्टा एसो संवच्छरो उ आइयो" तत्र यद्यपि लोके पयहोरात्रप्रमाणः प्रावृडादिक मतुः प्रसिद्धः तथापि परमार्थतः स एकषष्ट्यहोरात्रप्रमाणो वेदितव्यः तथैयोत्तरकालमव्यभिचारदर्शनात्, अस एव चास्मिन् संवत्सरे श्रीम शतानि षट्षष्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरं भवति, तथा चान्यत्रापि पञ्चस्वपि संवत्सरेषु यथोक्त
Eucation International
For Parts Only
~ 347~