________________
आगम
(१६)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [७७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
• प्राभृतप्राभृत [२०],
मूलं [ ५६ ]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education Int
शोध्यानि । 'असत्यादि, अष्टौ शतान्येकोनविंशानि - एकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इति पुष्यस्य शोधनकं, एतावता परिपूर्ण एको नक्षत्रपर्यायः शुद्धयतीति तात्पर्यार्थः, एष करणगाथाक्षरार्थः । सम्प्रतिकरण भावना क्रियते तत्र कोऽपि पृच्छति प्रथमं पूर्व कस्मिन् सूर्य नक्षत्रे परिसमाप्तिमुपैति १, तत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य द्वौ द्विषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागा इत्येवंरूपो घ्रियते ३३ । २ । ३४ | धृत्वा चैकेन गुण्यते, एकेन गुणितं तदेव भवति, ततः पुष्यशोधनक मे कोनविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशसप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत स्थितास्त्रयोदश मुहूर्त्ता एकस्य च मुहूर्त्तस्य एकविंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः । १३ । २१ । १, तत आगतमेतावदश्लेषा नक्षत्रस्य सूर्यो भुक्त्वा प्रथमं पर्व श्रावणमासभाव्यमावास्याउक्षणं परिसमापयतीति । द्वितीयपर्वचिन्तायां स एव ध्रुवराशिः ३३ । २ । ३४ द्वाभ्यां गुण्यते, जाता पट्षष्टिर्मुहर्त्ताः एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः । ६६ । ५ । १, एतस्माद् यथोदितप्रमाणं १९ । ४३ । ३३ पुष्यशोधनकं शोध्यन्ते, स्थिताः पश्चात् षट्चत्वारिंशन्मुहूर्त्ताः त्रयोविंशतिद्वषष्टिभागाः मुहूर्त्तस्य एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सपष्टिभागाः ४६ । २३ । ३५ । ततः पञ्चदशभिर्मुहत्र श्लेषा शुद्धा त्रिंशता मघा, स्थितः पश्चादेको मुहूर्त्तः तत आगतं द्वितीयं पर्व पूर्वफाल्गुनी नक्षत्रस्यैकं मुहर्त्तमेकस्य च मुहूर्त्तस्य त्रयोविंशतिं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टिभागान् भुक्त्वा सूर्यः परिसमाप्तिं नयति । तृतीय
For Parts Only
~341~