________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४५]
RX
तित्राद्यानि पट नक्षत्राणि यद्यपि पञ्चदशस्य मण्डलस्य बहिश्चारं चरन्ति तथापि तानि तस्य प्रत्यासन्नानीति तत्र गण्यन्ते.. ततो न कश्चिद्विरोधः, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा नक्षविरहितानि तानि सप्त, तद्यथा-द्वितीयं चन्द्रमण्डलमित्यादि, तथा तत्र-तेषां पश्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि रविशशिनक्षत्राणां सामान्यानि भवन्ति तानि णमिति प्राग्वत् चत्वारि, तद्यथा-पढमे चंदमंडले इत्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा आदित्याभ्यां विर-13 हितानि तानि पश्च, तद्यथा-'छठे चंदमंडले'इत्यादि सुगम, एतगणनाञ्च यान्यभ्यन्तराणि पश्च चन्द्रमण्डलानि, तद्यथाप्रथम द्वितीयं तृतीयं चतुर्थं पञ्चम, यानि च सर्ववाह्यानि चन्द्रमण्डलानि, तद्यथा-एकादर्श द्वादशं त्रयोदर्श चतुर्दश पञ्चदशमित्येतानि दश सूर्यस्यापि साधारणानीति गम्यते, तथा चोक्तमन्यत्र-'दस चेच मंडलाई अम्भितरबाहिरा रविससीणं । सामन्नाणि उ नियमा पत्तया होंति सेसाणि ॥१॥" अस्याक्षरगमनिका-पश्चाभ्यन्तराणि पञ्च बाह्यानि सर्वसङ्ख्यया दश मण्डलानि नियमाद्रविशशिनो सामान्यानि-साधारणानि, शेषाणि तु यानि चन्द्रमण्डलानि पडादीनि दशपर्यन्तानि तानि प्रत्येकानि-असाधारणानि चन्द्रस्य, तेषु चन्द्र एव गच्छति नतु जातुचिदपि सूर्य इति भावः, इह किं चन्द्रमण्डलं कियता भागेन सूर्यमण्डलेन न स्पृश्यते कियन्ति वा चन्द्रमण्डलस्यापान्तराले सूर्यमण्डलानि कथं वा षडा. दीनि दशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्येण न स्पृश्यन्ते इति चिन्तायां विभागोपदर्शनं पूर्वाचायः कृतं, ततस्तद्विनेयजनानुग्रहायोपदयते-तत्र प्रथमत एतद्विभावनार्थ विकम्पक्षेत्रकाष्ठा निरूप्यते, इह सूर्यस्य, विकम्पक्षेत्रकाष्ठा पण
अनुक्रम
(५५)
64%
~289~