SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (१६) "सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], -------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [४३] IRI . || मध्ये प्रथम संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तनिरूपयति-'सावणे त्यादि गाथाद्वयं, युगस्य प्रथमे ४ * संवत्सरे श्रावणे मासि बहुलपक्षे प्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणा वा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथिक्रमेण तावद धर्द्धते यावत् मासेन-सूर्यमासेन सार्वत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षया एकत्रिंशतिथिभिपरित्यर्थः, चत्वारि अकुलानि वर्द्धन्ते, कथमेतदवसीयते यथा मासेन-सूर्यमासेन साङ्घत्रिंशदहोरात्रप्रमाणेन एकत्रिंशति-II बाध्यात्मकेनेत्यत आह-'एक्कतीसे त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशनागा बर्द्धन्ते, एतच्च प्रागेव भावित, परि पूर्णे तु दक्षिणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो मासेन सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्युक्तं, तदेवमुक्ता वृद्धिः। सम्पति हानिमाह-'उसरे'त्यादि, युगस्य प्रथमे संवत्सरे माघमासे बहुलपक्षे सप्तम्या आरभ्य चतुर्यः पादेभ्यः सकाशात् प्रतितिधि एकत्रिंशभागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुषीति, एष प्रथमसंवत्सरगतो विधिः, द्वितीये संवत्सरे श्रावणे मासि बहुलपक्षे त्रयोदशीमादी कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा आया, तृतीयसंवत्सरे श्रावणे मासे शुक्ले पक्षे दशमी वृद्धेरादिर, माघमासे बहुलपक्षे प्रतिपत्४ क्षयस्यादिः, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धरादिः, माघमासे बहुलपक्षे त्रयोदशी क्षयस्यादिः, पश्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादिः, माघमासे शुक्लपक्षे दशमी क्षयस्यादिः, एतच्च करणगाथानुपात्तमपि पूर्वा-1 चार्यप्रदर्शितब्याख्यानादवसितं, सम्प्रत्युपसंहारमाह-एवं तु'इत्यादि, एवम्-उकेन प्रकारेण पौरुष्या-पीरुषीविषये वृद्धिलाक्षयौ यथाक्रम दक्षिणायने पूत्तरायणेषु येदितव्यो, तदेवमक्षरार्थमधिकृत्य व्याख्याताः करणगाथा, सम्प्रत्यस्य करणस्य दीप अनुक्रम [५३] ~279~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy