SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [३८] दीप अनुक्रम [४८] सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:) - मूलं [३८] प्राभृत [१०], ---- प्राभृतप्राभृत [६], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः राशिना एक लक्षणेन मध्यराशिः पश्ञ्चकरूपो गुण्यते, जाताः पञ्चैव, 'एकेन गुणितं तदेव भवतीति वचनात् तेषां चतुविंशत्यधिकेन शतेन भागो हियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनार्थमेतेऽष्टादशभिः शतैस्त्रिशदधिकैः सप्तषष्टिभागरूपैः गुणयितव्या इति, गुणकारच्छेदराश्योर्द्विकेनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिद्वषष्टिः ६२, ततः पश्च नवभिः पञ्चदशोत्तरैः शतैर्गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, छेदराशिद्वषष्टिलक्षणः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशदधि कानि ४१५४, तथा पुष्यस्य ये त्रयोविंशतिः सप्तषष्टिभागाः प्राक्तनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वापष्ट्या गुण्यन्ते, जातानि चतुर्दश शतानि षडविंशत्यधिकानि १४२६, एतानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशच्छतप्रमाणात् शोध्यन्ते, शेषं तिष्ठन्ति एकत्रिंशच्छतानि एकोनपञ्चाशदधिकानि ३१४९, तत एतानि मुहर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुर्णवतिः सहस्राणि चत्वारि शतानि सप्तत्यधिकानि ९४४७०, तेषां छेदराशिना चतुष्पञ्चाशदधिकेकचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ताः शेषं तिष्ठन्ति त्रीणि सहस्राणि व्यशीत्यधिकानि ३०८२, एतानि द्वाषष्टिभागानयनार्थ द्वाषष्ट्या गुण्यन्ते, जातमेकं लक्षमेकनवतिः सहस्राणि चतुरशीत्यधिकानि १९१०८४, तेषां छेदराशिना ४१५४ भागो हियते, लब्धाः षट्चत्वारिंशन्मुहूर्त्तस्य द्वाषष्टिभागाः, एषा पुनर्वसु नक्षत्रस्य शोधनकनिष्पत्तिः । शेषनक्षत्राणां शोधनकान्याह - 'बावन्तरं सय' मित्यादि, द्वासप्ततं द्विसप्तत्यधिकं शतं फाल्गुनीनां-उत्तरफाल्गुनीनां शोध्यं किमुक्तं भवति १- द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, Education Internation For Parts Only ~ 237~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy