________________
आगम (१६)
“सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [३] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
||१-५||
कस्मिन् सूर्यस्य प्रतिहता लेश्येति ५, षष्ठे 'कथं केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उत्ताग्यथा ओजस:-प्रका| शस्य संस्थिति:-अवस्थानमिति ६, सक्षमे के पुद्गलाः सूर्य वरयन्ति-सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे 'कथा केन प्रकारेण भगवन् ! 'ते', तव मतेन सूर्यस्योदयसंस्थितिः८, नवमे कतिकाष्ठा-किंप्रमाणा पौरुषीच्छाया ९, दशमे योग इति वस्तु कि 'ते' त्वया भगवताऽऽख्यातमिति १०, एकादशे कस्ते-तव मतेन संवत्सराणामादिरिति ११, द्वादशे कति संवत्सरा इति १२, त्रयोदशे 'क' केन प्रकारेण चन्द्रमसो वृद्धि:-वृद्धिप्रतिभासः, उपलक्षणमेतत्तेन वृयवृद्धि-14 प्रतिभास इत्यर्थः १३, चतुर्दशे 'कदा कस्मिन् काले 'ते तब मतेन चन्द्रमसो ज्योत्स्ना बहु-प्रभूतेति, १४, पञ्चदशे | कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति १५, पोडशे किं ज्योत्स्नालक्षणमिति वक्तव्यं १५, सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः १७, अष्टादशे चन्द्रादीनां समतलाभागादूर्वमुच्चरव-यावति प्रदेशे व्यवस्थि| तत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्य १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयं १९, विंश-| तितमे कोऽनुभावश्चन्द्रादीनामिति २० । एवमनन्तरोक्तेन प्रकारेण एतानि अनन्तरोदितार्थाधिकारोपेतानि विंशतिः प्राभृतान्यस्यां सूर्यप्रज्ञप्तौ वक्तव्यानि, अथ प्राभृतमिति कः शब्दार्थः, उच्यते, इह प्राभृतं नाम लोकप्रसिद्धं यदभीष्टाय देशकालोचितं दुर्लभ वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षणासमन्ताद् भ्रियते-पोष्यते चित्तमभीष्टस्य पुरुपस्यानेनेति प्राभृतमिति व्युत्पत्तेः, 'कृहुल'मिति वचनाच्च करणे कप्रत्ययः, विवक्षिता अपि च ग्रन्थपद्धतयः परमदुर्लभाः परिणामसुन्दराश्चाभीष्टेभ्यो-विनयादिगुणकलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते, ततः प्राभृतानीव |
दीप अनुक्रम [३-७]
~23~