________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [९], -------------------- प्राभृतप्रामृत -, ------------- ----- मूलं [३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१]
चतुष्पौरुषी-चतुष्पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं तेन सर्वस्यापि प्रकाश्यस्य वस्तुनश्चतुर्गुणां छायां निवर्तयति, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमयमुहूर्ते च द्विपौरुषीं-द्विपुरुषप्रमाणां छायां सूर्यो निर्वर्त्तयति, अत्रापि पुरुषग्रह्णमुपलक्षणं ततः सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणां छायां निवर्तयतीति द्रष्टव्यं, अत्रोपसंहारः- एगे एकमाइंसु' १, एके पुनरेवमाहुः-ता इति पूर्ववत्, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमयमुहूत्रे च सूर्यो द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निवर्तयति, पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनो द्विगुणां छायां निर्वतैयतीत्यर्थः, तथा अस्ति स दिवसो यस्मिन् दिवसे सूर्योऽस्तमयमुहूर्ते उद्गमनमुहूर्तेच न काश्चिदपि पौरुषी छायां निर्वर्तयति । सम्प्रत्येते एव मते भावयति-तत्थे' त्यादि, तत्र-तेषां द्वयानां मध्ये ये ते वादिन एवमाहुः-अस्ति स दिवसो यस्मिन् दिवसे चतुष्पौरुषी छायां सूर्यो निवर्तयति, अस्ति स दिवसो यस्मिन् दिवसे सूर्यों द्विपौरुषी छायां निवर्तयति, एवं स्वमतविभावनार्थमाहुः-'ता जया ण'मित्यादि, तत्र यदा-पस्मिन् काले णमिति वाक्यालकारे सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूत्तों दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिः, तस्मिंश्च दिवसे सूर्यश्चतुष्पौरुषी-चतुष्पुरुषप्रमाणां छायां निर्वयति, तद्यथा-उद्गमनमुहूर्तेऽस्तमयमुहुर्ने च, स चोद्गम-15 नमुहूर्तेऽस्तमयमुहूत्रं च चतुष्पौरुषी छायां निर्वर्तयति लेश्यामभिवर्द्धयन् प्रकाश्यवस्तुन उपरि प्लवमानां दूरं दूरतरं परिक्षिपन् नो चैव-नैव निर्वेष्टयन्-प्रकाश्यवस्खुन उपरिप्लवमानां प्रत्यासन्नं प्रत्यासनतरं परिक्षिपन तथा सति छायाया हीनहीनतरत्वसम्भवात्, 'ता जया णमित्यादि, तत्र यदा सर्ववाद्यं मण्डलमुपसङ्कम्य चार चरति तदा उत्तमकाष्ठा
अनुक्रम
[४१]]
For P
OW
~203~